________________
ခု
वादार्थसंग्रहः
[४ भागः
च एकपदोपस्थाप्यानामर्थानामसति बाधके एकत्रापरान्वय इति नियमेनैकत्वादिनिष्ठप्रकारतानिरूपितकर्तृनिष्ठविशेष्यतासंबन्धेन कर्ताख्यातपदज्ञानजन्यशाब्दबुद्धित्वावच्छिन्नं प्रति काख्यातपदज्ञानजन्यकर्नुपस्थितेर्विशेष्यतासंबन्धेन हेतुत्वस्य, एवमेकत्वादिनिष्ठप्रकारतानिरूपितकर्मनिष्ठविशेष्यतासंबन्धेन कर्माख्यातपदज्ञानजन्यशाब्दबुद्धित्वावच्छिन्नं प्रति कर्माख्यातपदजन्यकर्मोपस्थितेर्विशेष्यतासंबन्धेन हेतुत्वस्य च कल्पनीयतया क ख्यातस्थले न कर्मादौ संख्यान्वय इति भावः।
ननुकर्तर्याख्यातत्वेन कर्मणि चात्मनेपदत्वेन शक्तिकल्पने चैत्रः पच्यते तण्डुल इत्यादि प्रयोगापत्तिः । तत्राख्यातस्य आख्यातत्वेन कर्तरि शक्ततया कर्तुरुपस्थितिसंभवेनात्मनेपदत्वेन च तस्य कर्मशक्ततया कर्मणोऽप्युपस्थितिसंभवेन तयोस्तत्र चैत्रतण्डुलादावभेदसंबन्धेनान्वयबोधे बाधकाभावादित्यत आहकर्तृकर्मत्यादि । एकदाऽव्युत्पन्नमिति एकस्मिन्काले एकस्याक्लृप्तमित्यर्थः । तथा च तदाख्यातपदज्ञानजन्यकर्तृत्वप्रकारककर्तृशाब्दबुद्धित्वावच्छिन्नं प्रति कर्मबोधगृहीततात्पर्यकतदाख्यातपदज्ञानत्वादिना, एवं तदाख्यातपदजन्यकर्मत्वप्रकारककर्मविषयकशाब्दबुद्धित्वावच्छिन्नं प्रति कर्तृबोधगृहीततात्पर्यकतदाख्यातपदज्ञानत्वादिना च प्रतिबन्धकत्वस्य कल्पनीयतया नैकदा आख्यातपदात् कर्तृकर्मणोर्बोधापत्तिरिति भावः ।
केचित्तु तदाख्यातजन्यकर्तृत्वप्रकारककर्तृविशेष्यकशाब्दबुद्धित्वावच्छिन्नं प्रति कर्मत्वबोधकसुब्विभक्तिसमभिव्याहृतधातुसमभिव्याहृततदाख्यातपदज्ञानजन्यकत्रेपस्थितेरेवं तदाख्यातपदजन्यकर्मत्वप्रकारककमशाब्दबुद्धित्वावच्छिन्नं प्रति च तृतीयान्तपदसमभिव्याहृतधातुपदसमभिव्याहृततदाख्यातपदज्ञानजन्यकर्मोपस्थितेश्च हेतुत्वस्य कल्पनीयतया नैकदा एकारव्यातपदात् कर्तृकर्मणोरन्वयबोधः । चैत्रः चैत्रेण तण्डुलं तण्डुलः पक्ष्यते इत्यादि प्रयोगे चेष्टापत्तिस्तत्रावृत्त्यान्वयबोधे कस्याप्यविवादादित्याहुः ।
ननूपदर्शितरीत्या मैत्रः पक्ष्यते तण्डुल इत्यादिप्रयोगवारणेऽपि मैत्रः पच्यते तण्डुलमित्यादिप्रयोगापत्तिर्दुरैव, तत्र कर्मताबोधे गृहीततात्पर्यकाख्यातपदज्ञानाभावात् कर्मताबोधकाब्विभक्तिसमभिव्याहृतधातुसमभिव्याहृतपदजन्यकत्रुपस्थितिसत्वाच कर्तृबोधे बाधकाभावादित्यत आह-कर्तुरिति । तथा च कर्तृत्वप्रकारककर्तृशाब्दबोधकतावच्छेदककोटावाख्यातपदांशे यगाद्यसमभिन्याहृतत्वमपि निवेशनीयमिति नोपदर्शितप्रयोगापत्तिरिति भावः ॥ ५ ॥