________________
mar
१३ ग्रन्थः] गमिधातूत्तरकृत्प्रत्ययस्य संख्यानभिधायकत्वेन तृतीयापत्तेब्रह्मणोऽप्यशक्यवारणत्वादिति भावः ।
ननु यत्र आख्यातेन कर्तृगतसंख्याभिधीयते तत्र प्रथमा । यत्र तेन कर्तृगतसंख्या नाभिधीयते तत्र तृतीयेति । एवं कर्मणि प्रथमादिनियमो वाच्यः । कृत्प्रत्ययस्थले च क देरभिधानानभिधानाभ्यां तथा नियमो वाच्यः । तत्र च न कोऽपि दोष इत्यत आह-किं चेति। न नियम इति । काख्यातेन कर्तृगतसंख्यैवाभिधीयते न तु कर्मगतसंख्या । एवं कर्माख्यातेन कर्मगतसंख्यैवाभिधीयते न तु कर्तृगतसंख्येति नियमालाभ इत्यर्थः । ननु तादृशनियमालाभे का क्षतिरित्यत आह–पदार्थतावच्छेदकावच्छिन्नस्येति। एकत्वत्वावच्छिन्नस्येत्यर्थः । आकाङ्कादिवशादिति । एकवचनत्वावच्छिन्नशक्तिवशादित्यर्थः । तथा च चैत्रो ग्रामं गच्छतीत्यत्राख्यातेन कर्मगतसंख्याबोधने बाधकाभावेन तत्रापि कर्मणि प्रथमा स्यात् । एवं चेत्रेणौदनः पच्यत इत्याख्यातेन कर्तृगतसंख्याबोधने बाधकाभावेन तत्रापि कर्तरि प्रथमापत्तिरिति भावः । . ननु ककेवचनत्वावच्छिन्नस्य ककत्वत्वं शक्यतावच्छेदकमेवं कर्मैकवचनत्वावच्छिन्नस्य कर्मकत्वत्वं शक्यतावच्छेदकमिति वाच्यम् । तथा च शक्यतावच्छेदकशक्ततावच्छेदकभेदान्न सर्वत्र कर्तृकर्मसाधारणैकत्वबोध इत्यत आह-कटेकत्वत्वादिनाभिधाने विति । कर्बकत्वत्वादिना कर्डकत्वादौ कत्रेकवचनत्वावच्छिन्नादेः शक्तिकल्पने त्वित्यर्थः । आदिना कमैकत्वत्वादिपरिग्रहः । अभिधेयत्वं शक्यतावच्छेदककोटिप्रविष्टत्वम् । इदमुपलक्षणम् । कादिपदस्यापि शक्यतावच्छेदककोटिप्रविष्टत्वमित्यपि बोध्यम् । नन्वेतेन किमायातमत आहशक्ताविति । शक्तावित्यस्य गौरवमित्यग्रेतनेनान्वयः। तथा च कर्नादिघटितधर्मविशिष्टे शक्तिकल्पनेन तत्पदघटितधर्मस्य शक्ततावच्छेदकत्वकल्पनेन, कादिपदघटितधर्मस्य शक्ततावच्छेदकत्वकल्पनेन च महागौरवं नैयायिकमते। वैयाकरणमते स्वेकत्वत्वादिना शक्यता, एकवचनत्वादिना शक्ततेति लाघवमतिस्फुटमिति भावः । वैयाकरणमतमुपसंहरति–तस्मादिति । तत्तद्रूपेण वेति तित्त्वादिना वेत्यर्थः ।
नन्वेवं सति वैयाकरणमते कथं न कांद्याख्यातस्थले कर्मादौ संख्यान्वय इत्यत आह-एकपदेति। कादिसंख्ययोरेकाख्यातपदोपस्थाप्यत्वादित्यर्थः । वाच्यगामित्वमिति । क ख्यातस्थले संख्याया: कादिष्वन्वयित्वमित्यर्थः । तथा
१ एकत्वत्वावच्छिन्ननिरूपितशक्तिवशादिति पाठः।