SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः [४ भागः न च सुप: संख्याभिधायकत्वे चैत्रो रूपवानित्युदाहरणं त्यक्त्वा चैत्रेण दृष्टो घंट इत्येताबद्दूरपर्यन्तानुधावनमफलमिति वाच्यम् । नहि क्रियारहितं वाक्यमस्तीति न्यायेन चैत्रो रूपवानित्यादौ गच्छतीतिक्रियामध्याहृत्य तिव सर्वत्र संख्याबोधसंभवेऽलं सुप: संख्याभिधायकत्वेनेति शंकानिराकरणासंभवेन सुपः संख्याभिधायकत्वे सक्रियतया तथाविधवाक्यपर्यन्तानुधावनस्यानैष्फल्यादिति । क्लृप्तशक्ते: सुप एवेति, अवश्य संख्याक्प्तशक्तेः सुप्पदादित्यर्थः । न तदभिधायकत्वमिति । न संख्याभिधायकत्वमित्यर्थः । तथा च देवदत्तो गच्छतीत्यादावपि तिङ: संख्यानभिधायकत्वेन तृतीया स्यादिति भावः । तादृशं सुपमिति द्वित्वादिसंख्याबोधकं सुप्पदमित्यर्थः। द्वित्वादिप्रत्ययादिति । तथा च तत्र द्वित्वादिबोधान्यथानुपपत्त्या तिङोऽपि संख्यावाचकत्वमित्यर्थः । यत्तु चैत्रो मैत्रश्च गच्छत इत्यादौ मैत्रपदोत्तरसुब्बिभक्तद्वित्वादिलाक्षणिकतया द्वित्वादिबोधसंभवे तिङः संख्याभिधायकत्वं नियुक्तिकमिति तदश्रद्धेयम् । विनिगमनाविरहेण चैत्रपदोत्तरसुब्विभक्तेरपि द्वित्वादिबोधस्यावश्यकत्वे चैत्रद्वयं मैत्रद्वयं गच्छत इत्यापत्तिर्दुवारा स्यात् । तत्रैकवचनोपस्थितैकत्वान्वितचैत्रादौ कथं तिकुपस्थाप्यद्वित्वादेरन्वय इति तु नाशंकनीयम्, तत्रैकत्वस्याविवक्षितत्वादिति । ननु तथाप्युपदर्शितयुक्त्या तिङो द्वित्वाभिधायकमस्तु एकत्वाभिधायकत्वं तु तस्य नियुक्तिकमित्याशंकामपाकर्तुमाह-लाघवादेकवचनत्वादिनैवेति । तया चैकवचनत्वविशिष्टसुप्त्वस्यैकत्वशक्ततावच्छेदकत्वकल्पने गौस्वात्तपहाय एकवचनत्व एव एकत्वशक्ततावच्छेदकत्वकल्पनमुचितमिति । एकवचनत्वं चाभियुक्तैरेकवचनत्वेन परिभाषितत्वं, तच तिबादिसाधारणमिति. तिबादेरप्येकत्वबोधकत्वमक्षुण्णमिति भावः । केचित्तु पचतीत्यादावाख्यातपदालक्षणया शक्त्या वा कर्तृबोधेऽपि तत्र नियमत एकत्वबोधस्यानुभवसिद्धत्वात्तिप एकत्वबोधकत्वमावश्यकम् । न च तत्राख्यातस्यैकत्वविशिष्टकर्तरि लक्षणेति वाच्यम् । नियमतः प्रतीयमानेऽप्यर्थे लक्षणाकल्पने यत्नेऽप्याख्यातस्य शक्तिकल्पनस्य नियुक्तिकत्वं, लक्षणयैव तत्र यत्नबोधसंभवादित्याहुः । कर्तृकर्मगतसंख्याभिधानानभिधानाभ्यामित्यारभ्य नास्तीत्यन्तशंकाग्रन्थोपरि वैयाकरण: समाधत्ते--कृतेत्यादि। तथा च सुब्धिभक्ति विना कृत्प्रत्ययावस्थानासंभवात् कृत्प्रत्ययोत्तरसुप एव संख्याबोधसंभवे कृत: संख्याबोधकत्वं नियुक्तिकम् । न च विनिगमनाविरह इति वाच्यम् । एकवचनत्वेन सुपस्तत्र शक्तेरन्यत्र क्लप्तत्वात् । एवं चैत्रो ग्रामं गतवानित्यादौ
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy