________________
१३ ग्रन्थः] व्याख्याषट्कयुतः ___ नन्वाख्यातसामान्यस्य कर्तृशक्ततया आत्मनेपदस्यापि कर्तृबोधकत्वं कर्मबोधकत्वं च तस्य प्रसिद्ध तथाचैकदा कर्तृ-कर्मतात्पर्ये चैत्र: पक्ष्यते तण्डुलं इत्यादिप्रयोगापत्तिरित्यत आह-कर्तृकर्मेति । अव्युत्पन्नमिति, एकदा तदुभयबोधाय कार्य-कारणभावाकल्पनादिति भावः । न चैकस्याख्यातस्यैकदा कर्तृ-कर्मबोधकत्वाभावे मैत्रेण तण्डुलः पक्ष्यते चैत्रस्तु तेमनं इत्यादावेकस्मादाख्यातात् तण्डुले चैत्रकर्तृकपाककर्मत्वस्य मैत्रे तेमनकर्तृत्वस्य च समूहालम्बनशाब्दबोधो न स्यादिति वाच्यम् । आख्यातान्तराध्याहारस्थल एवेशसमूहालम्बनशादबोधाङ्गीकारात् । यत्र च नाध्याहारस्तत्रैकस्मादेवाख्यातादात्त्या क्रमेणैव कर्तृत्वस्य कर्मत्वस्य च शाब्दबोधो न समूहालम्बनम् । नचात्तिस्वीकारे एकस्याख्यातस्य एकदा कर्तृकर्मबोधकत्वाभावव्युत्पत्तिभङ्ग एव, एतादृशव्युत्पत्तावेकानुसंधानावच्छिन्नतयैकस्याख्यातस्य विशेषितत्वादिति दिक् । ननु मास्तु उक्तव्युत्पत्तिविरोधेनैकदोभयबोधकत्वं, तथापि चैत्रे पाककर्तृत्वमात्रतात्पर्यदशायां चैत्रः पच्यते इति प्रयोगः स्यादित्यत भाह-कर्तरीति । असाधुत्वाचेत्यत्र चोऽवधारणे ॥५॥
(रघु०) वैयाकरणमतमाह-कर्तृकर्मणीति । लकारवाच्ये आख्यातवाच्ये इतीति इत्यत्रेत्यर्थः । सामानाधिकरण्यानुरोधादिति, नामाख्यातयोरेकर्मिबोधकत्वरूपसामानाधिकरण्यबोधस्यानुभवसिद्धत्वादित्यर्थः । नन्वेतादृशानुभवे मानाभाव इत्यत आह-अन्यथेति । क ख्यातकर्माख्यातयोः कर्तृकर्मणोरनभिधायकत्वे इत्यर्थः । तयोरिति । द्वितीयातृतीययोरित्यर्थः । अनभिहिताधिकारीयत्वादिति । कर्तृकमानभिधायकाख्यातसमभिव्याहारे अभिहितत्वादित्यर्थः । यत्राख्यातेन क; नाभिधीयते तत्र तृतीया, यत्र चाख्यातेन कर्म नाभिधीयते तत्र द्वितीयाभियुक्तसंमतेति भावः । नन्वाख्यातस्य कृत्यभिधायकत्वानभिधायकत्वे एव द्वितीयातृतीययोर्नियामके स्तः । तथा च व्यर्थमाख्यातस्य कर्ताद्यभिधायकत्वमित्यत आह-कृत्यभिधानस्येति । अविशिष्टत्वादिति, कर्माख्यातसाधारणत्वादित्यर्थः । तथा च नैयायिकनये कर्माख्यातस्यापि कृतिवाचकतया तत्र ततीया न स्यादिति भावः । न च नैयायिकनये कर्माख्यातस्य कर्मत्वार्थकतया कथमेतदिति वाच्यम् । प्राचीननैयायिकनय एवैतदभिधानात् । स्फुटीभविष्यति चेदमुपरिष्टात् ।
शंकते-कर्तृकर्मेत्यादि । नियमः द्वितीयातृतीययोस्तदभावयोश्च नियम इत्यर्थः । यत्र धातूत्तरप्रत्ययेम कर्तृगतसंख्याभिधीयते तत्र कर्तरि न तृतीया । यत्र कर्तृगतसंख्या नाभिधीयते तत्र कर्तरि तृतीया । एवं यत्र धातूत्तरप्रत्ययेन कर्मगता संख्याभिधीयते तत्र कर्मणि न द्वितीया । तेन यत्र कर्मगतसंख्या नाभिधीयते तत्र कर्मणि द्वितीयेति भावः । चैत्रेण दृष्टो घट इत्यादाविति ।