________________
वादार्थसंग्रहः
[४ भागः वाचिकृत्प्रत्ययघटितवाक्ये कर्तृपदस्य तृतीयान्तता स्यादिति भावः । ननु आख्यातघटितवाक्य एव तादृशनियमः कृत्प्रत्ययघटितवाक्यस्थले तु नियमान्तरमेवेत्यतआह-किश्चेति । एकत्वादिसंख्याभिधान इति, आख्यातजन्य एकत्वादिसंख्याप्रकारकान्वयबोध इत्यर्थः न नियमः, कृतिशक्तिवादिनां मते न विशेष्यत्वनियमः, तथाच कुत्रचित्कर्तुः कुत्रचित्कर्मणश्च तद्विशेष्यत्वे विनिगमकस्य वक्तुमशक्यत्वादिति भावः। एतदेव स्पष्टयति-पदार्थतावच्छेदकावच्छिन्नस्येति । आख्यातोपस्थापितस्यैकत्वत्वाधवच्छिन्नस्येत्यर्थः । आकाङ्गादिवशात्, आकासादिसाचिव्यात् । कर्तृ-कर्मेति, तथाचोभयत्रैव संख्यान्वयात चैत्रः तण्डुलं पचति इत्यत्र कर्मपदं प्रथमान्तं स्यात् स्याच चैत्रेण पच्यते तण्डुल इत्यत्र कर्तपदं प्रथमान्तमिति भावः । कत्रैकत्वत्वादिनेति । यद्यपि देवदत्तेऽप्याख्यातार्थसङ्ख्यान्वयापत्त्या चैत्रेण देवदत्तोऽयं गच्छतीत्यादिप्रयोगापत्तिरेव, तथापि स्वप्रकृत्यर्थक्रियाकर्वेकत्वत्वादिना शक्तिकल्पने तात्पर्यम् । नचैवं स्वत्वाननुगमस्यापि सत्त्वेन तदनभिधाने न्यूनता, प्राचां मते यत्र-तत्त्वादिवत् स्वत्वस्याप्यनुगतत्वेन तन्मतमाश्रित्यैतदभिधानात् । क देरपीति । आदिपदेन कर्मपरिग्रहः विशिष्टस्य शक्यत्वे विशेषणांशेऽपि शक्तिरावश्यकीति भावः । अभिधेयत्वं शक्यत्वं, तथाच दृश्चिकभिया पलायमानस्येत्यादिन्यायावतार इति भावः । इदमुपलक्षणमयमश्वस्तमश्वं गच्छतीत्यादावुभयकर्मजसंयोगस्थले स्वप्रकृत्यर्थक्रियाकर्तृत्वस्य कर्तृ-कर्मताधारणतयाख्यातस्य निष्ठत्वांशे स्वप्रकृत्यर्थत्वांशे च शक्तिसंबन्धक. ल्पने गौरवम् । एवं कत्रेकवचनाख्यातत्वादिकं शक्ततावच्छेदकमिति शक्ततावच्छेदंकगोरवम् । एवं शक्यतावच्छेदकगौरवं च स्फुटमेव, ककत्वत्वादेः शक्यतावच्छेदकत्वादिति । तथाच कāकत्वत्वादिना शक्तिकल्पने कर्तरि कर्मणि च विशेपणतया शक्तिः स्वीकृतैव भवता; अधिकं च तव शक्त्यादिगौरवमिति समु. दायार्थः। .
वैयाकरणः स्वमतमुपसंहरति-तस्मादिति । एकवचनत्वस्याखण्डस्यानभ्युपगमे त्वाह-तत्तद्रूपेणेति । सित्वादिनैव तित्वादिना वेत्यर्थः । आख्यातत्वं. च दशलकारसाधारणं लत्वमन्यत्रेति प्रागेवोक्तं तत्रैवामुसंधेयम् । नन्वेवं कर्तकमसाधारण्येन सङ्घयान्वयस्य दुरित्वादिति दोषस्यापरीहार एवेत्यतआहएकेति । एकेनाख्यातपदेन कर्तृ-सङ्ख्ययोरभिधानात् कृति-वर्तमानत्ववत् कर्तृसंख्ययोरेव परस्परमन्वयः आसत्तेरुत्कटत्वादिति संप्रदायः । .. नव्यास्तु कर्नाख्यातजन्यसंख्याप्रकारकशाब्दत्वावच्छिन्नं प्रति आख्यातजन्यकर्बुपस्थितित्वेन हेतुत्वं लाघवात् । अन्यथा तादृशशाब्दत्वावच्छिन्नं प्रति चैत्रादिपदजन्योपस्थितीनामनन्तानां परामर्शानुमितिवत् कार्य-कारणभावकल्पने महागौरवप्रसङ्गादित्यत्र तात्पर्यमित्याहुः ।