________________
१३ ग्रन्थः] व्याख्याषट्कयुतः। हेतुमाह-कृत्यभिधानेति । कृत्यभिधानेत्यनन्तरं मात्रपदाध्याहारेण कर्माख्यातस्थले कर्माख्यातस्थले च कर्तुः कर्मणश्चानभिधानेऽस्य भवन्मते तुल्यत्वादित्यर्थः करणीयः । यद्वा ननु कृतेरन भिधाने तृतीया कृतेरभिधाने द्वितीयेत्यनभिहिताधिकारीयसूत्रार्थो वाच्यः इति नोक्त दोष इत्यत आह-कृत्यभिधानस्येति । अविशिष्टत्वादिति चैत्रः पचतीत्यादाविव चैत्रेण पच्यते इत्यत्रापि कृत्यभिधानस्याविशिष्टत्वादित्यर्थः । तथाच चैत्रेण पच्यते इत्यत्रापि तृतीया न स्यादित्यर्थः । ननु कर्तगतसङ्ख्यायाः प्रत्ययेनानभिधाने तृतीया एवं कर्मगतसंवयायाः प्रत्ययेनानभिधाने द्वितीयेत्यनभिहिताधिकारीयसूत्रार्थोवाच्य इति नोतातिप्रसङ्ग इत्याशङ्कय निराकुरुते-कर्तृ-कर्मेत्यादि । अत्र च कर्तृकर्मेत्यायः इत्यपिनास्तीत्यन्त एको ग्रन्थः । नन्वाख्यातस्य सङ्ख्यावाचकवे उक्तनियमः संभवति तत्र च प्रमाणं नास्तीत्याशङ्कय निराकुरुते-न चेति । यद्यपि चैत्रेण दृष्ट इत्यस्योपदर्शनं निरर्थकं घट इत्यत्रैव सुपः क्लप्तसंख्याशक्तिकत्वात् तथापि कृत्समभिव्याहारस्थले सुपः सङ्ख्याबोधकत्वे प्रदर्शिते कृतः संख्याशको मानाभाव इत्युक्तं भवति । तथाच कृता संख्यानभिधानादिति वक्ष्यमाणदूषणस्य स्फुटता भवतीत्यभिप्रायेण तदुपदर्शनमिति ध्येयम् । संख्याप्रतीतेरिति । एकोघटश्चैत्रतिदर्शनविषय इत्यन्वयबोधे एकत्वसंख्यादिप्रतीतेरित्यर्थः । इदं च क्लसशक्तरित्यत्र शक्तिकल्पने हेतुः । सुप एवेति । प्रथमाविभक्तेरेवेत्यर्थः। सन्योपस्थितिसंभवे इति, चैत्रोगच्छति ग्रामोगम्यत इत्यादौ एकत्वादिप्रतीतिसंभव इत्यर्थः, न संख्याभिधायकत्वमाख्यातस्य न संख्याबोधकत्वम् । चैत्रो मैत्रश्चेति । इत्यादावित्यादिपदेन चैत्रोमैत्रोदेवदत्तश्च गच्छन्तीत्यादिसंग्रहः तादृशसुपमिति, द्वित्वादिबोधकसुपमित्यर्थः । तथाच अत्र द्वित्वादिसंख्यावाचकपोऽभावादकामेनाप्याख्यातस्य संख्यावाचकत्वमङ्गीकार्यमिति भावः ।न चोक्तप्रयोगे लक्षणयैव एकवचनात् द्वित्वादिसंख्याबोधसंभवे किमनुरोधेनाख्यातस्य संख्यावाचकत्वमङ्गीकार्यमिति वाच्यम् , लक्षणाबीजाद्यप्रतिसंधानदशायामपि उक्तवाक्यात् द्वित्वादिसङ्खयान्वयबोधस्य सर्वानुभवसिद्धत्वात् । अन्यथा अन्यत्रापि शक्त्युच्छेदप्रसङ्गात् । ननु उक्तवाक्यप्रामाण्यानुरोधादाख्यातद्विवचनादत्विादिसंख्यावाचकत्वस्य सिद्धत्वेऽपि आख्यातैकवचनस्य संख्यावाचकत्वं न सिद्धयतीत्यत आह-लाघवादिति । सित्वायनन्तधर्मेषु शक्ततावच्छेदकत्वकल्पनापेक्षया आख्यातैकवचनसाधारणैकवचनत्वस्य शक्ततावच्छेदकत्वे लाघवादित्यर्थः, एकवचनत्वं च लक्षणाणहाजन्यैकत्वसंख्यावोधजनकतावच्छदेकानुपूर्वीमत्वमिति नान्योन्याश्रयादिकमिति । संप्रदायविदस्तु चैत्रोगच्छतीत्यादौ सुबेकवचनस्य शक्तिप्रतिसंधानं विनापि संख्यान्वयबोधस्य सर्वजनानुभवसिद्धत्वेन सुबे. कवचनस्येव आख्यातैकवचनस्यापि संख्यावाचकत्वं निर्विवादमिति वदन्ति । कृतेति । तथाच कमर्वाचिकृत्प्रत्ययघटितवाक्ये कर्मपदस्य द्वितीयान्तता कर्तृ