________________
वादार्थसंग्रहः
[ ४ भाग:
कर्मस्मरणादुक्तमेकदेति । चैत्रः पश्यते तण्डुलं मैत्रेण पश्यते तण्डुलः इत्यत्र समूहालम्बनाख्यातपदद्वयज्ञानस्यैकदैव कर्मकर्तृ स्मारकत्वादेकेत्याख्यातपदविशेषणं, मैत्रेण पक्ष्यते ओदनः चैत्रस्तेमनं इत्यादिष्वप्याटत्यैव कर्तृ- कर्मत्रीयः । यद्वा बोधकत्वमनुभावकत्वमव्युत्पन्नमकाख्यातपदविषयकै कज्ञानजन्यकर्तृकर्मोपस्थितेरसिद्धं, पदज्ञानजन्यकर्तृ-कर्मोपस्थितेः शाब्दबुद्धिकारणतायां तत्तदुपस्थितिव्य्तिभिन्नत्वविशिष्टजन्यत्वस्य संसर्गत्वादिति भावः । न प्रयोगा इति । न विना आवृत्ति, चैत्रः पाककर्ता तण्डुलः पाककर्मेति बोधजनका इत्यर्थः । एतच्चापा ततः सति तात्पर्यज्ञाने आवृत्तिं विनापि तादृशबोधस्येष्टत्वादिति ध्येयम् । ननु तथापि चैत्रः पच्यत इत्यत्र चैत्रः पाककर्तेति बोधो दुर्वारः आत्मनेपदस्य कर्तर्यपि शक्तत्वादित्यत आह- कर्त्तरीति । असाधुत्वात्, अनाकाङ्क्षितत्वात् । यगायसमभिव्याहृतानुपूर्व्या एव तत्राकाङ्क्षात्वादन्यथा न्यायनयेऽपि तत्र कर्तृत्वबोधस्य दुर्वारत्वादिति भावः । चस्त्वर्थः, इत्यादयोऽपि न प्रयोगाः, इति संबध्यते, न कर्तृबोधका इति तदर्थः । इदमुपलक्षणं, कर्मणि शपोऽसाधुत्वात् तण्डुल: पचते इत्यादयोऽपि न कर्मवोधका इत्यपि मन्तव्यम् ॥ ५ ॥
( राम० ) वैयाकरणमतमाह- कर्तृकर्मणी इति । । लकारः आख्यातं, arraveratri लत्वेन परिभाषितत्वादित्यर्थः । कर्तृत्वं कर्मत्वं च समवायेन विषयतया वा कृतिरेव शक्यतावच्छेदिकेति, पचतीत्यादौ समवायेन कृतिप्रकारेण, पच्यते इत्यादौ च विषयतया कृतिप्रकारेण तत्तदर्थबोधस्यानुभविकत्वादित्यर्थः । इति इत्यत्र सामानाधिकरण्येति चैत्रपदाख्यातपदयोभित्र रूपाभ्यां चैत्रत्व - कृतिभ्यामेकस्य चैत्रस्य धर्मिणो बोधकत्वमेव शाब्द समानाधिकरण्यं, चैत्रेण पच्यते तण्डुल इत्यादौ च तण्डुलपदाख्यातपदयोभित्ररूपाभ्यां तण्डुलत्व - विषयतासंबन्धेन कृतिभ्यामेकस्य तण्डुलधर्मिणो बोधकत्वं शाब्दसामानाधिकरण्यमनुभवसिद्धं तदनुरोधाच्चाख्यात सामान्यस्य समवायेन कृतिः शक्यतावच्छेदिका आत्मनेपदस्य च विषयतासम्बन्धेन कृतिः शक्यतावच्छेदिकेति समुदायार्थः । यद्वा सामानाधिकरण्यानुरोधादित्यस्य चैत्रादिपदार्थे तादात्म्यसंबन्धेनाख्याता
५६
प्रकारको स्यानुरोधादित्यर्थः । अन्यथेति आख्यातस्य कर्त्तरि कर्मणि च शक्त्यनङ्गीकारे इत्यर्थः । तयोः तृतीया - द्वितीययोः अनभिहिताधिकारीयसूत्राभ्यां • साधुत्वेन प्रतिपादनादित्यर्थः । आख्यातेन कर्तुरनभिधाने समभिव्याहतप्रातिपदि तृतीया, एवं आख्यातेन कर्मणोऽनभिधाने समभिव्याहृतप्रातिपदिके द्वितीया इति तृतीया - द्वितीयादिविधायकसूत्रस्यार्थस्तथा च कृतिः कर्मत्वं वा यथाख्या
शक्यं न तु कर्त्ता कर्म वा तदा तृतीया - द्वितीयाविधायकसूत्रबलेन चैत्रः पचतीत्यादौ तृतीया चैत्रेण पच्यते तण्डुल इत्यादौ द्वितीया स्यादेवं च चैत्रेण तण्डुलं पचति चैत्रेण पच्यते तण्डुलमित्यादिप्रयोगस्यापि साधुत्वापत्तिर्नचेष्टापत्तिस्तथा सति यज्ञादौ तादृशप्रयोगेऽप्यसाधुशब्दप्रयोगकृतदोष विरहप्रसङ्गादित्यर्थः । अत्र