________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
कर्मद्वये शक्तिः, आत्मनेपदवहुवचनस्य कर्मबहुत्वेन कर्मबहुषु शक्तिः । तथाच कर्तृकर्मशक्तिवादिनां वैयाकरणानां कर्तृ-कर्मगोरभेदसंसर्गेणान्वयनियामकस्यैव अस्माकमपि ककादीनां तादात्म्यसंबन्धेनान्वये नियामकत्वान्नातिप्रसङ्गस्तदवस्थ इत्यत आह-कर्बकत्वादिनेति । कāकत्वत्वादिनेति पाठस्तु प्रामादिकः। अभिधानेऽपि, आख्यातस्य शक्तावपि । अभिधेयत्वं शक्तिविशेष्यत्वम् । नन्वत्र इष्टापत्तिः किंतु केवलकर्तृत्वादेः शक्यतावच्छेदकत्व एव विवाद इत्यत आहशक्ताविति । व्याख्यानं च पूर्वोक्तमिति प्राहुः ।
वैयाकरणः स्वमतनिष्कर्षमाह-तस्मादिति । आख्यातत्वेनेति पचते इत्या दावात्मनेपदेनापि कर्तृवोधनादिति भावः । आत्मनेपदत्वेनेति, परस्मैपदत्वेन कदाचिदपि कर्माबोधनादिति भावः । एकवचनत्वादिनेति । आदिना द्विवचनत्व-बहुवचनत्वपरिग्रहः । एकवचनत्वादिरूपेणाज्ञानदशायां तिप्स्वादिप्रकारकज्ञानाद्विना शक्तिधममेकत्वादिबोधो यद्यनुभवसिद्धस्तदा त्वाह-तत्तदूपेणवेति । एवमाख्यातत्वादेः शक्ततावच्छेदकत्वाभिधानमप्यापाततः वस्तुतस्तु प्रागुक्तयुक्त्या तिप्वादिकमेत बोध्यम् । ननु भवतामपि संख्यान्वयनियमः कथमित्यत आह-एकति । चस्त्वर्थे, एकेनैवाख्यातपदेनोपस्थापितत्वाच्च इत्यर्थः । वाच्यगामित्वमिति संख्या-कालायतिरिकाख्यातबोध्यान्वयित्वमित्यर्थः । तथाच विशेष्यतावच्छेदकतासंबन्धेन आख्यातजन्यसंख्याप्रकारकशाब्दबोधोत्पत्ति प्रति कालत्वैकत्वत्वापत्तिप्रकारतासंबन्धेनाख्यातजन्योपस्थितेः कारणतया नान्यत्र तदन्वयः । चैत्रः पचतीत्यादौ एकचैत्रः एकपाकक-भिन्न-इत्यायेवान्वयबोधः। अत एव सुपेकवचन-तिडेकवचनद्योरुभयोरेव सार्थकतेति भावः । .
केचित्तु कर्तृत्वावच्छिन्नविशेष्यतासंबन्धेनाख्यातपदजन्यसंख्याप्रकारकशाब्दबोधोत्पत्तिं प्रति आख्यातपदजन्यकर्तृत्वप्रकारकोपस्थितिः कर्मत्वावच्छिन्नविशेप्यतासंबन्धेनाख्यातपदजन्यसंख्याप्रकारकशाब्दबोधोत्पत्तिं प्रति आख्यातपदजन्यकर्मत्वोपस्थितिर्विशेष्यतासंबन्धेन कारणं, तदुभयातिरिक्तविशेष्यतासंसाधे. नाख्यातजन्यसंख्याप्रकारकशाब्दबोधोत्पत्तेरलीकतया यावद्विशेषकारणवाधादेव संख्याकालादौ न संख्याया अन्वय-इत्याहुः ।।
ननु पक्ष्यत इति प्रयोगस्य कर्तृ-कर्मोभयसाधारणतया चैत्रः पक्ष्यते तण्डुल इत्यादौ चैत्र: पाककर्ता तण्डुलः पाककर्मेति बोधो जायतामात्मनेपदस्य कर्तृकर्मोभयवाचकवादित्यत आह-कर्तकर्मेति । बोधकत्वं स्मारकत्वम् । अछ. त्पन्नम् , एकाख्यातपदविषयकज्ञानस्यासिद्धम् । पदज्ञानस्य उदोषकविषयव पदार्थस्मारकतया फलबलेन तत्तज्ज्ञानव्यक्तिभिन्नाख्यातपदज्ञानस्वैव कर्तृकर्मोद्बोधकत्वात् , अन्यथा न्यायनयेऽपि तत्र कर्तृत्व-कर्मत्वबोधस्य दुर्वारत्वादिति भावः । चैत्रः पक्ष्यते तण्डुल इस्यत्रापि पक्ष्यतेपदस्यानुसत्या कर्तृ