________________
५४
वादार्थसंग्रहः
[४ भागः
तस्यैकत्वादौ शक्तिसिद्धिः । नच तत्रैकत्वादिविशिष्टकर्त्तयैव लक्षणा शक्तिभ्रमोवेति वाच्यम् । केवलकर्तरि लक्षणादिनापि तादृशवोधस्यानुभवसिद्धत्वादित्याहुः ।
केचित्तु वारि तिष्ठति स्वस्तिष्ठति इत्यादौ विनापि लुप्तसुपः प्रतिसंधानं एकत्वादिप्रतीतेरेकत्वादिषु तिङः शक्तिसिद्धिरित्याहुः। ___ कृतेति । तथाच चैत्रेण दृष्टो घट इत्यादावपि कर्मणि द्वितीया स्यान्न प्रथमा, चैत्रः पक्तत्यादावपि कर्तरि तृतीया स्यान्न प्रथमेति भावः । तस्मात् प्रत्ययेन सं. ख्याभिधानानभिधानं न प्रथमातृतीयानियामकं, किन्तु प्रत्ययेन कर्तृ-कर्मणोरभिधानानभिधानमेव तनियामकमिति वैयाकरणनिगमः। नन्वाख्यातस्थल एव तथा वक्तव्यं, कृत्स्थले तु कर्तृकर्मणोरभिधानानभिधानाभ्यामेव नियम इत्यत आहकिश्चेति । संख्याभिधाने इति, आख्यातजन्यसंख्याप्रकारकबोधे-इत्यर्थः न नियम इति, कृतिशक्तिवादिनां विशेष्यतानियमो नास्तीत्यर्थः क्वचित्कतैव तद्विशेष्यः क्वचित्कर्मत्यत्र नियामकस्य दुर्वचत्वादिति भावः। एतदेवाह-पदाथेति । आख्यातोपस्थापितस्यैकत्वत्वाचवच्छिन्नस्वेत्यर्थः । कर्त-कर्मेति । तथाचोभयत्रैव संख्यान्वयात् देवदत्त: पचति तण्डुलमित्यत्र कर्मणि प्रथमा देवदत्तेन पच्यते तण्डुल इत्यत्र कर्तरि प्रथमा स्यादिति भावः । ननु कटेकत्वत्वादिना शक्यत्वाद् योग्यतैव नियामिका इत्यत आह-ककत्वत्वादिनेति । अभिधेयत्वं, विशेषणविधया शक्यत्वम् । यदि च कृतिविशिष्टैकत्वं कर्बकत्वं तदा संसर्गविधया शक्यत्वम् । ननु मुख्यविशेप्यविधयैव मया शक्यत्वं नाभ्युपे. यते इत्यत आह-शक्ताविति। ककत्वाद्योः संबन्धो मम वाक्यार्थः तव च तत्रापि शक्तिविषयत्वम् । किञ्च मम एकवचनत्वादिना सुप-तिसाधारणं संख्यायां शक्तित्रयं, तव आख्यातैकवचनत्वादिना ककत्वादिषु शक्तित्रयं, आत्मनेपदैकवचनत्वादिना कमैकत्वादिषु शक्तित्रयं, सवेकवचनत्वादिना एकत्वा. दिषु शक्तित्रयमिति नव शक्तय इत्यर्थः । शक्ततेति । ममैकवचनत्वादिना शक्तत्वं, तव चाख्यातैकवचनत्वादिना कर्तरि विहितैकवचनत्वादिना वा शक्तत्वम् इति शक्ततावच्छेदकगौरवमित्यर्थः । तत्तद्रूपेणैव शक्तत्वस्याग्रे वक्ष्यमाणत्वात् शक्ततावच्छेदकशरीरमुभयमत समानमित्यत आह-शक्यतेति । ममैकत्वत्वादिना शक्यत्वं, तव कत्रकत्वत्वादिना शक्यत्वमिति शक्यतावच्छेदकगौरवमित्यर्थः। इदमुपलक्षणं कठेकत्वत्वादिना शक्यत्वे च योग्यताश्रमात् कर्त-कर्मसाधारण्येनान्वयस्य दुर्वारत्वमित्यपि बोध्यम् ।
नव्यास्तु नन्वाख्यातस्य एकत्वत्वादिना पृथगेकत्वादौ न शक्तिः किंतु आख्यातैकवचनस्य ककत्वेन ककस्मिन् शक्तिः, आख्यातद्विवचनस्य कर्तद्वयत्वेन कर्तृद्वये शक्तिः, आख्यातबहुवचनस्य कर्तृबहुत्वेन कर्तृबहुषु शक्तिः । आत्मनेपदैकवचनस्य कर्मैकत्वेन कमैकस्मिन् शक्तिः, आत्मनेपदद्विवचनस्य कर्मद्वयत्वेन