________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
५३
प्रसिध्या तत्र प्रथमाविभक्तेः संख्यायां लक्षणाया वक्तुमशक्यत्वात् शक्यसंबन्धस्यैव लक्षणात्वादिति । तन्न । प्रथमाविभक्तेः संख्यायां लक्षणाया वक्तुमशक्यत्वेऽपि शक्तिभ्रमस्य सुवचतया विनिगमनांविरहस्य दुरित्वादिति ।
नन्वतावता आख्यातद्विवचनादेवित्वादी शक्तिरायातु तदेकवचनस्य एकत्वे शक्तौ तु किमानं, तथाच तत्रैव तृतीया-द्वितीयानियमार्थ कादिराख्यातपवाच्यः स्यादित्यत आह-लाघवादिति । सित्वादिना एकत्वादिषु शक्तिकल्पने शक्ततावच्छेदकबाहुल्यापच्या लाघवादेकवचनत्वादिनैव प्रथमैकवचनादेरेकत्वादिषु शक्तिः, तथाचायातमाख्यातैकवचनादेरप्येकत्वादिपु शत्तयेत्यर्थः । अत एव 'बेकयोद्विवचनैकवचने' इत्यनुशासनम् । यद्यप्येकवचनत्वं नैकत्वशक्तत्वमात्माश्रयार, नाप्येकत्वबोधकत्वं पदमात्रस्यैव लक्षणादिना एकत्वबोधत्वात् ; तथापि सङ्केतविशेषसंबन्धेनैकवचनपदवत्त्वमेकवचनत्वादि, 'तान्येकवचन-द्विवचन बहुवचनान्येकशः' इत्यनुशासनेन तिङ्मुबेकवचनादिपदस्य सङ्केतितत्वात् । न चैवं तेन रूपेण ज्ञानं विना सित्वादिना ज्ञानादेकत्वादिप्रत्ययो न स्यादिति वाच्यम् । विना शक्तिभ्रममिष्टत्वादिति भावः । - अत्र नव्याः-सित्वादिना प्रातिस्विकरूपेण सुब्बिभक्तेरेकत्वादिषु शक्तावपि तिवादिना तिड्विभक्तेरेकत्वादिषु शक्तिरावश्यकी चैत्रः पचतीत्यादावगृहीतसु
संख्याशक्तिकानां कदाचित्तिबादेरेकत्वादिनिष्ठत्तिज्ञानादेकत्वादिबोधो भवत्यविवादम् । तथाच तिबादेः प्रवृत्तित्वं शक्यतावच्छेदकमेकत्वत्वादिकं वेत्यत्र विनिगमकाभावादुभयोरेव तच्छक्यतावच्छेदकत्वसिद्धेः । एकत्वत्वादेः शक्यतावच्छेदकत्वेऽपि प्रत्तित्वप्रकारेण बोधस्य लक्षगादिना सुवचत्वात, प्रटत्तित्वप्रकारकतिबादिजन्यबोधस्येव एकत्वादिप्रकारकतजन्यबोधस्यापि स्वारसिकत्वस्य प्रामाणिकसिद्धत्वात् । अन्यथा बोषस्य स्वारसिकत्वमादाय विवादे पवादिपदस्यापि प्रत्येकमादाय विनिगमनाविरहेण लाघवात हरिणत्वादेरशक्यतावच्छेदकतापत्तेः नानार्थीच्छेदापत्तेश्च । एवं च प्रथमैकवचन-द्विवचन बहुवचनानां वा एकत्व-द्वित्व-बहुत्वेषु शक्तिः, तिडेकवचन-द्विवचन बहुवचनानां वा इत्यत्र विनिगमकाभावादेकत्वादिषु शक्तिसिद्धिः, चैत्रः पचतीत्यादौ अगृहीतसुसंख्याशक्तिकानां कदाचित्तिबादेरेकत्वादिनिष्ठत्तिज्ञानादप्येकत्वादिबोधस्य , सर्वसिद्धत्वात् । न च तदत्तिज्ञानं लक्षणाज्ञानरूपं शक्तिभ्रमरूपं वेति वाच्यम् । तद्वत्तिज्ञानं लक्षणाज्ञानादिरूपं प्रथमैकवचनदावेकत्वादिषु वृत्तिज्ञानं वा शक्तिभ्रमरूपमित्यत्र विनिगमकाभावात् प्रत्येकमादाय विनिगमकाभावेन तिडेकवचनादेईहुल्यस्याकिंचित्करत्वादिति वदन्ति ।
केचित्तु केवलात् पचति-पचत इत्यादितः तिङः कर्तरि लक्षणादिना वा वैयाकरणमते तिङः शक्त्या वा एकः पाककतेंत्यादिबुद्धेरनुभवसिद्धत्वादाख्या