________________
५२ वादार्थसंग्रहः
[४ भागः इति वाच्यम् । चैत्रेण भूयते इत्यादी भावाख्यातस्थले कर्तरि तृतीयानुपपत्तेरिति ध्येयम् ।
नियमान्तरमाशङ्कय निराकरोति कर्तृकर्मसंख्येत्यादिना । इत्यपि ना. स्तीत्यन्तेनान्वयः । कर्तृगतसङ्घयायाः प्रत्ययेनाभिधाने कर्तरि प्रथमा, तेन तदन. भिधाने तृयीया, एवं प्रत्ययेन कर्मगतसंख्याया अभिधाने कर्मणिप्रथमा तदन. भिधाने तत्र द्वितीया इति नियम इत्यर्थः। अन्तरा शडूते-जचेति । सुप एव प्रथमाविभक्तित एव, संख्योपस्थितिसंभव इति चैत्र: पचति तण्डुलः पच्यते इत्यादौ संख्योपस्थितिसंभव इत्यर्थः । न तदभिधायकत्वं न संख्याभिधायकत्वम् । तथाच तृतीयाद्वितीयापत्तिस्तदवस्थेति भावः। यद्यपि घट एता. वतैव संख्यायां सुपः क्लप्तशक्तिकत्वमुपदर्शितं भवति किं चैत्रेण दृष्ट इत्यनेन, तथापि कृता संख्यानभिधानादिति वक्ष्यमाणदृषणेऽस्य विशिष्टोपदर्शनस्य फलं भविष्यति । । केचित्तु क्रियारहितं वाक्यमेव नास्तीतिमते घटइत्यत्र क्रियापदाध्याहार. स्यावश्यकत्वे अस्तीत्यादि तिङन्तमेवाध्याहर्तव्यम् । तथाच विनिगमनाविरह इति कदाचित् यादतस्तदुपेश्य सक्रियमेव वाक्यमुदाहृतम् । न च तथापि चैत्राभ्यां पच्यते, तण्डुलान् पचतीत्यादि विहाय कृदन्तपर्यन्तानुधावनं विफलमिति वाच्यम् । प्रथमायाः संख्याशक्तिसिद्धेरैव प्रकृतोपयोगित्वात् प्रथमेतरसुब्विभक्तेः संख्याशक्तिसिद्ध्या तिङः संख्याशक्तिनिराकरणाशक्यत्वादित्याहुः ।
इत्यादाविति । आदिपदात् चैत्रो मैत्री विष्णुमित्रश्च गच्छन्तीत्यस्य परिग्रहः। तादृशेति द्वित्वादिबोधकेत्यर्थः द्वित्वादिपदाद्बहुत्वपरिग्रहः । नचात्र सुपैव द्वित्वादिबोधसंभवः, सुब्विभक्तौ न लक्षणेति प्रवादस्य यद्विभक्त्यर्थे यद्विभक्तेर्व्यत्यया. नुशासनं तद्विभत्त्यर्थातिरिक्त विभक्त्यन्तरशक्ये तद्विभक्तर्न लक्षणेत्येव विषयत्वादिति वाच्यम् । सुपो द्वित्वादिषु लक्षणानुसंधानं विनापि द्वित्वादिप्रत्ययादिति
केचित्तु चैत्रादिपदोत्तरसुपो द्वित्वादिलक्षणायां चैत्रपर्याप्तमैत्रपदोत्तरसुपो द्विस्वादिलक्षणायां मैत्रपर्याप्तेर्द्वित्वादेरेव प्रतीत्या चैत्र-मैत्रोभयपर्याप्तद्वित्वाधला. मात् चैत्र-मैत्रोभयमिति प्रतीतिर्न स्यात् स्याच चैत्रद्वयं मैत्रद्वयमित्येव प्रतीतिः सुविभक्तेः प्रकृत्यर्थगतमात्रसंख्याबोधकत्वनियमात् । न चैवं चैत्र-मैत्रपदोत्तर(सवर्थ) संख्या कथं चैत्रादावन्वेतीति वाच्यम् । द्वन्द्वसमासायतिरिक्तस्थल । एव तथा नियमादित्याहुः।
यत्तु चैत्रो मैत्रश्च गच्छत इत्यादौ लक्षणयैवाख्यात द्वित्वादिप्रत्ययसंभवात् किन्तस्य तत्र शक्तिकल्पनेन । न चात्र वा द्वित्वादावाख्यातस्य लक्षणा दृष्टौ घटौ दृष्टा घटा इत्यत्र प्रथमाया वा द्वित्वादिषु लक्षणेत्यत्र विनिगमनाभावात् उभयोरेव शक्तिसिद्धिरिति वाच्यम् । संख्यातिरिक्तस्य प्रथमाविभक्तेः शक्यस्या
भावः।