________________
१३ ग्रन्थः]
व्याख्याषद्कयुतः ।
४९
चैत्रादिसंकेतसत्त्वादत आह---चैतन्याविनेति । वस्तुत आदिपदव्यवस्थाकथनमेतत् । तेन, पाकजनकव्यापारेण । शोभन इति । अत्र शब्दाच्छोभनत्वं प्रतीयते तद्विशिष्टे पाकजनकव्यापारवत्त्वं च । शोभनत्वं वह्नयादावपीति व्यभिचारस्तदवस्थ एव । चैत्रत्वादिप्रतीतिस्त्वेतादृशवाक्यप्रयोगकाले न शब्दात् प्रमाणान्तरकृतनियमेति भावः । ।
ननु व्यभिचारिहेतुनाऽपि व्यभिचाराग्रहदशायामन्ततो व्यभिचारस्थानान्यत्वविशेषितेन वा तेन तदनुमाय वर्तमानपाकेन कारणतयाक्षिप्तवर्तमानयत्नस्यान्ततो मानसोऽपि चैत्रादौ विशिष्टबोध: स्यादिति चेन्न । व्याप्त्यादिप्रतिसंधानं विनाऽपि तादृशयत्नानुभवात् अन्यथा वैशेषिका एव विजयेरन् । मनसा च तन्निर्णयः सर्वत्र न संभवति संदेहसामग्रीसत्त्वात् । किं च तदंशे शाब्दत्वानुभवो नोभयथाऽपीति दिक् ।
तत्र शोभनं पचतीत्यादौ, यत्नानुभावकप्रमाणान्तराभावशालिनि । अथानुकुलव्यापारे शक्तावपि लक्षणया यत्नयतीतिर्वांच्या । तथा च लाघवाद्यत्न एव शक्तिरस्तु । काष्ठं पचतीत्यादौ व्यापारप्रतीतिर्लक्षणयेत्यभिप्रेत्य समाधत्तेमैवमिति । लाघवेनेति । व्यापारत्वस्य प्रकृते जन्यत्वाद्यात्मकस्यापि यत्नत्वापेक्षया गुरुत्वमिति भावः । पतति स्पन्दते इत्यादौ च पतनस्पन्दनानुकूलगुरुत्ववेगयोर्न तत्वेन प्रतीतिः किं तु व्यापारत्वेनेति गुरुत्ववेगत्वयोर्जातित्वेन लाघवमकिंचित्करम् । भवतु वा कदाचित्ताभ्यामपि प्रतीतेर्विनिगमकाभावात्तयोरप्याख्यातशक्यतावच्छेदकत्वम् । अन्यथा यत्नत्वमपि तथा न स्यान्नियमतस्तेनापि रूपेणाप्रतीतेस्तथाऽपि न व्यापारत्वस्य तथात्वमित्यत्र तात्पर्य बोध्यम् । ___ शङ्कते-~-यत्नमिति । यत्नत्वमित्यर्थः । जनकयत्नत्वे प्रविष्टस्य जनकत्वस्यैव शक्यतावच्छेदकत्वादिति भावः । अनुगुणान्तरमाह-तथा चेति । अचेतनेऽपीति । तण्डुलादावपि पाकजनकवह्निसंयोगादिसत्त्वादिति मावः। ननु यत्नशक्तावप्यदृष्टद्वाराऽदृष्टजनककृतेः पाकजनकत्वात्तदापत्तिस्तुल्येत्यत्राहपाकजनकादृष्टजनकेति। अत एव, स्वजनकादृष्टजनककृतेः स्वजनकत्वाभावादेव अर्थान्तरमुद्देश्यासिद्धिः । तत्र ह्यनन्तादृष्टजनककृतेः क्षितिजनकत्वक ल्पनापेक्षया क्षितिजनकत्वेनैककृतिकल्पनैव लघीयसीति लाघवादेककृतिसिद्धी तदाश्रयेश्वरकल्पनं फलमुखत्वान्न दोषायेतीश्वरसिद्धिः । स्वजनकादृष्टजनककृते: स्वजनकत्वे तु तृप्तेन तत्कृतिजन्यत्वेनैव साध्यसिद्धौ नेश्वरसिद्धिः स्यादिति भावः ।