________________
४८
वादार्थसंग्रहः
[४ भागः
एवेति । तजनकादृष्टजनककृतेस्तजनकत्वे प्रमाणाभावादेवेत्यर्थः । क्षित्यादेरित्यादि । क्षितिः सकर्तृका कार्यत्वादितीश्वरानुमाने इत्यर्थः । तजनकेति, क्षित्यादिजनकेत्यर्थः । अर्थान्तरप्रसङ्गोऽपीति, इदमापाततः तत्र सकर्तृकत्वस्य अहष्टाद्वारककृतिजन्यत्वार्थकतयानुपपत्त्यभावादिति ।
ननु कृतीष्टसाधनताया विध्यर्थत्ववादिसौन्दडमते तजनकादृष्टजनककृतेरपि तजनकत्वस्य वेदबोधितत्वेन दुरपह्नवत्वात्कथमतिप्रसङ्गोद्धार इत्यत आह-- भावे वेति । तजनकादृष्टजनककृतेस्तजनकत्वे प्रमाणसद्भावे वेत्यर्थः । तादृशकृतिवारणायेति, तादृशकृतिकाले तथाविधप्रयोगवारणायेत्यर्थः । त्वयापीति । जनकमात्रे शक्तिवादिनापि इत्यर्थः । ननु जनकयत्ने आख्यातस्य शक्तिकल्पने शक्यतावच्छेदकगौरवात्तदपेक्ष्य केवलयत्नत्वविशिष्टे शक्तिकल्पनस्योचितत्वात्तथैवाह-यत्नमात्रमिति । यत्नत्वविशिष्टमात्रमित्यर्थः । न चाख्यातस्य यत्नत्वविशिष्टमात्रवाचकत्वे आख्यातपदयत्नपदयोः पर्यायतापत्तिः तच्छक्यतावच्छेदकावछिन्नशक्तत्वस्य तत्पर्यायतापदार्थत्वादिति वाच्यम् । इष्टत्वात् । ननु विषयत्वस्य धात्वर्थसंसर्गताभ्युपगमे पाकानुपधायकपाकगोचरयत्नवति पुरुषे पचतीति प्रयोगापत्तिरित्यत आह-जनकत्वं वेति । फलोपधायकत्वं वेत्यर्थः । फलोपधायकत्वंच तत्तद्वयक्तित्वावच्छिन्नजनकत्वमतिरिक्तं वेत्यन्यदेतदिति भावः ॥ ४ ॥
(जय० ) एवं यत्नस्यानुमानिकत्वे । तस्य यत्नस्य यत्नत्वेनापदार्थत्वात् । अर्थाध्याहारवादिमतालम्बनेनापदार्थेऽप्यध्याहृतयत्ने पदार्थसंभावितमन्वयं व्युत्पत्तिविरोधेन प्रत्याचष्टे-अन्यत्रेति । चैत्रः पचतीत्यादेरन्यत्र जानातीत्यादौ, धात्वर्थक्रियायां काष्ठं पचतीत्यादौ, स्वार्थव्यापारे आख्यातसामान्यस्य वर्तमानत्वातीतत्वाद्यनुभावकत्वस्य क्लृप्तत्वात् । तदुभयभिन्नेऽध्याहृतयत्नेऽर्थाध्याहारवादिमतेऽपि नात्वया । आश्रयत्वादिबोधकाख्यातजन्ये वर्तमानत्वादिप्रकारकशाब्दबोधे धातुजन्योपस्थितेापारबोधकाख्यावजन्ये । तत्राख्यातजन्यव्यापारोपस्थिते: समानविशेष्यत्वप्रत्यासत्त्या कारणत्वकल्पनरूपव्युत्पत्तिविरोधापत्तेरिति भावः । यत्नविममेऽपीति । वह्निसंयोगाद्यात्मकव्यापारवति काले पाकानुकूलयत्नाभापायभिचार इत्यर्थः । ननु पाकक्रियाफलोपधानावच्छिन्नव्यापारेण तदनुकूलो यत्नोऽनुमेयः । किंच नास्त्येव व्यभिचारोऽन्तत ईश्वरयत्नसत्त्वादत आहधर्मीति । ननु चैत्रः पाकजनकयत्नवान् पाकजनकव्यापारजनकत्वादित्यनुमानेन सा प्रतीयेतेत्यत्राह—तव्यधिकरणस्येति । यत्नव्यधिकरणस्य वह्निसंयोगादेः सत्वात्तद्वति वयादौ दैशिकव्याप्तेर्व्यभिचार इति भावः । अचेतनेऽपि