________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः।
४७
साधकं च रथो गच्छतीत्यादौ लक्षणाया अकल्पनमिति चेत्सत्यम् । व्यापारत्वस्याख्यातपदशक्यतावच्छेदककोटिप्रविष्टत्वे अनन्तसंयोगविभागादिरूपजन्यसामान्ये आख्यातपदशक्यत्वकल्पने गौरवात् तदपेक्ष्य यत्नमात्रे तच्छक्तिकल्पने लाघवस्यातिस्फुटत्वात् । यत्नस्यापि व्यापारतया तत्र तच्छक्तिकल्पनस्याप्यावश्यकत्वात् ।
केचित्तु आख्यातस्य समवायमात्रे शक्तिः समवायत्वं शक्यतावच्छेदकं तच्चातिरिक्त, मुख्यप्रयोगश्च रयो गच्छतीत्यादौ पचतीत्यादौ जनकयत्ने लक्षणेत्याहुः । तदपि न सम्यक् । अनन्तश:समवाये तच्छक्तिकल्पने गौरवात् । न च समवायस्यैकतया न गौरवावकाशो लाघवं चानन्तशक्तिकल्पानापेक्षया स्फुटमेवेति वाच्यम् । एकस्मिन्समवाये आख्यातशक्तिकल्पने केवलचैत्रस्य घटज्ञानवतादशायां चैत्रो घटं जानातीति वन्मैत्रो घटं जानातीति प्रयोगापत्तेः। भवन्मते आत्मत्वादिसमवायापेक्षया. ज्ञानादिसमवायस्य वैलक्षण्याभावेन आत्मत्वादिसमवायवति क्षेत्रात्मनि ज्ञानाभावदशायामपि ज्ञानसमवायसत्वात्। यदि चाख्यातपदार्थसमवायान्वये तत्तदात्मनिरूपितत्वविशिष्टस्वरूपस्य संबन्धत्वमङ्गीकृत्योक्तबाधकोद्धार: संभाव्यते तथापि अतिरिक्तसमवायत्वमाख्यातपदशक्यतावच्छेदकमुत विशेष्यतासंबधेन तन्मात्रविशेष्यकज्ञानादिकमित्यत्र विभिगमनाचिरहेण गौरवं दुरुद्धरमेव । यत्नशक्तिवादिमते तु यत्नत्वस्य जातितया तदितरस्य यत्नसाधारणस्य गौरवेण शक्यतावच्छेदकत्वस्यासंभवदुक्तिकतया लाघवस्य ब्रह्मणोऽपि अशक्यवारणीयत्वमेवेति सुधीभिरन्यत्स्वयमूह्यम् ।
शंकते- यत्नं विहायेति । लाघवादिति । अनकयत्नशक्तिवादिनापि जनकाशे शक्तिकल्पनस्यावश्यकतया जनकशक्तिवादिमते एतदतिरिक्तशक्त्यकल्पनेन लाघवसंभवादित्यर्थः । तथा चेति जनकमात्रे शक्तिकल्पने चेत्पर्यः । अचेतनेत्यादि । रथो गच्छतीत्यादौ गमनजनकनोदनाख्यसंयोगादे रथादौ सत्वेनाख्यातस्य शक्त्यैव तथाप्रयोगसंभवेन तत्राश्रयत्वादी लक्षणाकल्पनापि नास्तीति भावः । अपचत्यपीति । न च साधारणजनके शक्तिरुररीकरणीया अदृष्टस्य साधारणकारणतया तद्वति पाकशून्यपुरुषे पचतीति प्रयोगापत्तिरिति वाच्यम् । गौरवात् । ननु पाकजनकादृष्टजनककृतेरपि पाकजनकतया यागादिगोचरकृतिकालेऽपि पचतीति प्रयोगापत्तिरिति शंका वारयति-पाकजनकादृष्टजनकेति । मानाभावादिति । तस्याः पाकादिजनकादृष्टाजनकत्वेन पाकप्रयोजकतयान्यथासिद्धत्वेन. बाधादिनानुमानादिप्रमाणस्यानवतारादित्यर्थः । अत