________________
वादार्थसंग्रहः
[४ भागः क-कर्मणी लकारवाच्ये, चैत्रः पचति पच्यते तण्डुल इति सामानाधिकरण्यानुरोधात् अन्यथा पचतीत्यत्रापि कर्त्तरि तृतीया पच्यत इत्यत्र क. मणि द्वितीया स्यात् तयोरनभिहिताधिकारीयत्वात्
ननु तत्रादृष्टद्वारककृतिजन्यत्वस्य यत्र समवायेन कार्य तत्र विषयता कृतिरित्येवं प्रत्यासत्तिनियतजन्यत्वस्याद्यघटादिदृष्टतुल्यसाध्यत्वात्तत्सिद्धिः स्यात् अत आह-भावे वेति । त्वयापीति । तवाऽपि अदृष्टाद्वारकत्वेन तजनककृतिवारणं समानमिति तदपेक्षया यत्नत्वनिवेश एव लघीयानिति भावः । ननु निरूपितत्वविशेषसंसर्गेण पाकादेर्धात्वर्थस्याख्यातार्थे प्रयोजकत्वे प्रयोजके चान्वयान्नातिप्रसङ्गः । अन्यथा परंपरया कृतावपि कचित्प्रयोगः कचिन्नेत्यत्र तवाप्यसंगतेरित्यतः स्वमतमाह-यत्नमात्रमिति । । ननु पचधातोः पाकत्वे लक्षणायामपि पचतीतिव्यवहारः प्रमाणं स्यात् पाकत्वविशिष्टविषयकयत्नस्य पाकत्वविषयकस्वनियमात् , विशेष्यतैव संसर्ग इति चेत्तथाऽपि वृष्टयाद्यर्थ यतमानस्य वृष्टिविशेष्यककृत्युत्पादेऽपि स्वरूपायोग्यतया ततो वृष्टयनुत्पादे वर्षतीति, निगडनिश्चलदेहे च उत्थानानुत्पत्तावपि तद्विषयककृतिमादायोत्तिष्ठतीति व्यवहारः स्यान्न स्याच्चान्यविशे यककृत्या शर्कराभोजने तां भुङ्क्ते इत्यत आह-जनकत्वमिति । जनकत्वं च प्रागुक्तयुक्त्या प्रयोजकत्वाविशेषरूपं बोध्यम् । वृष्टयादिप्रयोजकत्वं नास्मदादिकृतेरिति नातिप्रसङ्गः। विशेष्यितायाश्च विशेष्यतावच्छेदकैक्येनैक्यान्न विशेष्यितासंसर्गत्वेनापि तत्पक्षे अतिप्रसङ्गभङ्ग इति भावः ॥ ४ ॥
(मथु०) वैयाकरणमतमुत्थापयति-कर्तृ-कर्मणी इति । लकारः आख्यातम् इति सामानाधिकरण्यानुरोधादिति, इति अत्र, चैत्र-तण्डुलादिपदाख्यातपदयोरेक धमिबोधकत्वानुरोधादित्यर्थः, विभिन्न प्रतिनिमित्तकयोरेकर्मिबोधकत्वलक्षणस्य शाब्दसामानाधिकरण्यस्यात्र सामानाधिकरण्यपदार्थत्वात् ।
ननु चैत्र-तण्डुलपाख्यातपदयोरेकथर्मिबोधकत्वमेवासिद्ध तथाच लाघवात् प्रवृत्तित्वमाख्यास्तय शक्यतावच्छेदकमित्यत आह-अन्यथेति । तयोरेकधम्यबोधकत्वे इत्यर्थः।
केचितु इति सामानाधिकरण्याउरोधादित्यत्र चैत्र-तण्डुलपदार्थाख्यातार्थयोरभेदसंसर्गकान्वयानुरोधात् । नन्विदमेवाप्रसिद्ध तथाच लाधवात् प्रवृत्तित्वमेवाख्यातस्य शक्यतावच्छेदकमित्यस्वरसात्साधकान्तरमाह-अन्यथेति । कर्तृ-कर्मणोरनभिधाने इत्याहुः।