________________
-४४
वादार्थसंग्रहः
[ ४ भाग:
ननु चैत्रः पाकजनकवर्तमानयत्नवान् पाकजनकवर्तमानव्यापारवत्त्वादित्यनुमितिर्जायतामित्याशङ्कते -चैतन्येति । अविनाभूतं व्याप्यं यचैत्रत्वादि तद्विशेपिसेनेत्यर्थः । तेन - पाकानुकूलवर्त्तमानव्यापारेण । यत्नानुमानं पाकजनकवर्तमानयत्नानुमानम् । शोभनत्वं सुन्दरत्वं, शोभन इति काष्ठादिसाधारणं बोध्यम्, तथाच शोभनत्वे सति पाकजनकवर्त्तमानव्यापारवत्त्वं शोभनकाष्ठादौ पाकजनकवर्त्तमानयत्ने व्यभिचारीति तत्र तादृशानुमानानुपपत्तिरित्यर्थः । न च तत्रापि चैत्रत्वादिविशेषितेन तदनुमानं तत्र चैत्रत्वादेः शब्दादनुपस्थितेः प्रमाणान्तरेण च तदा नियमतस्तदनुपस्थितौ मानाभाव एव । तथाच शोभनः पचतीत्यादौ प्रमाणान्तरेण चैत्रत्वाद्यनुपस्थितिदशायां तदनुमानानुपपत्तिरिति भावः ।
अथैवमिति पूर्वपक्षी समाधानमाह - सत्यमिति । तत्र शोभनः पचतीत्यादौ । इत्थं च काष्ठं पचति अग्निः पचतीत्यादिबहुतरप्रयोगे मुख्यत्वसंपादनाय परमा- ख्यातस्य व्यापारे शक्तिः कल्प्यते, शोभनः पचतीत्यादिप्रयोगानां चाल्पत्वेन तत्र लक्षणाकल्पनैव युक्तेति पूर्वपक्षिहृदयम् । लाघवेनेति । जन्यत्वं धर्मत्वं वा व्यापारत्वमपेक्ष्य यत्नत्वस्य लघुत्वेनेत्यर्थः । ननु पततीत्यादौ पतनानुकूलगुरुत्ववदिति, स्पन्दत इत्यादौ च स्पन्दानुकूलवेगवदिति प्रतीयते इति गुरुत्वत्वं वेगत्वं चाख्यातशक्यतावच्छेदकं स्यात् यत्नतुल्यत्वादिति चेत्, तत्र तत्र तेन तेन रूपेण प्रतीते - रानुभविकत्वे इष्टापत्तेः। वस्तुतः पततीत्यादौ पतनाश्रयत्वादेरेव प्रतीतेरानुभविकत्वादिति भावः । जनकयत्नत्वे जनकत्वं प्रविष्टमिति तदेवाख्यातशक्यतावच्छेदकं स्याल्लाघवादित्याशङ्कते - यत्नं विहायेति । लाघवात् जनकयत्नत्वापेक्षया जनकत्वस्य लघुत्वात् । यत्नत्यागे बीजान्तरमप्याह- तथाचेति । जनकत्वमात्रस्याख्यातशक्यतावच्छेदकत्वे चेत्यर्थः, अचेतनेऽपि काष्ठं पचति अग्रिः पचतीत्यादावाख्याते प्रयोगो मुख्य एव भवतीत्यर्थः । ननु जनकयत्नस्य शक्यत्वेऽपि पाकजनकादृष्टजनककृतेरपि पाकजनकतया स एव दोपः स्यादित्यत आह-पाक : जनकेति । अतएव तजनकादृष्टजनककृतेस्तज्जनकत्वे मानाभावादेव । क्षित्यादेरिति । क्षितिः कृतिजन्या कार्यत्वात् घटवदित्यनुमानबलेनास्मदादिकृतिजन्यताबाधेन भगवत्कृतिजन्यता सिध्यतीति सिद्धान्तः स च तज्जनकादृष्टजनककृतेस्तज्जनकत्वे भग्नः स्यात्, बाधाभावेनादृष्टजनकास्मदादिकृतिजन्यतामादायार्थान्तरप्रसङ्गेन भगवत्कृते र सिद्धयापत्तेरिति दोषो निरस्त इत्यर्थः । अभ्युपेत्याह-भावे वेति । तज्जनकादृष्टजनककृतौ तज्जनकत्वस्य प्रामाणिकत्वे वेत्यर्थः । त्वयापीति । जनकात्रे आख्यातशक्तिवादिनापि । वाच्यत्वादिति । अन्यथा पाकजनकादृष्टजनकयत्नस्यापि पाकजनकत्वेन तमादाय अपचत्यपि पाकजनका - दृष्टजनकीभूतगङ्गास्नानादिगोचरयत्नवति पचतीति प्रयोगप्रसङ्गस्य तवापि दुर्वारत्वादिति भावः । वस्तुतः कार्यभूतपाकस्य समवायः कारणीभूतकृतेर्विषयतेत्येवंसामानाधिकरण्यप्रत्यासत्यवच्छिन्नजनकत्वस्य शक्यतावच्छेदकत्वेन नोक्तगङ्गाना