________________
१३ ग्रन्थः ]
नादिगोचरकृतिमादायातिप्रसङ्गस्तस्य पाकसमवायिस्थाल्यादिविषयकत्वाभावेन
व्याख्याषट्कयुतः ।
४५
निरुक्तसामानाधिकरण्यप्रत्यासत्त्यवच्छिन्नपाकजनकत्वासंभवादिति तत्वम् । नवदृष्टव्यावृत्तं विलक्षणजनकत्वमेवाख्यातशक्यतावच्छेदकं वाच्यमतो न पाकजनकादृष्टमादायोक्तातिप्रसङ्ग इत्यतो नव्यमते यत्ने शक्तौ युक्तिं दर्शयति यस्नमात्रमिति । यत्नत्वमात्रमाख्यातशक्यतावच्छेदकमित्यर्थः । मात्रपदेन जनकयत्नत्वस्य जनकत्वस्यचाख्यातशक्यतावच्छेदकत्वव्यवच्छेदः । तयोर्यत्नत्वजात्यपेक्षया गुरुत्वादिति भावः । धात्वर्थपाकादेर्यले केनसंबन्धेनान्वय इत्याकाङ्क्षायामाह - विषयित्वमिति । तथाच पचतीत्यादौ विषयितासंबन्धेन पाकविशिष्टयत्नवानित्यर्थः । नन्वेवं पचतीत्यादौ पचेः पाकत्वलक्षणायामपि पाकत्वविषयक यत्नवानित्यन्वयबोधापत्तिः । पाकविषयिण्यास्तत्तत्कृतेः पाकत्वविषयकत्वनियमात् । न च विशेष्यत्वाख्यमेव विषयित्वं संसर्गः तथापि निगडनिश्चलदेहस्या मवातजडीकृतकलेवरस्य चोत्थानविषयककृतिर्जायते उत्थानं तु न जायते निगडबन्धनामवातादिना दोषेण प्रतिबन्धादिति सिद्धान्तस्तथा च यदा निगमिश्रलदेहस्योत्थानविषयिणी कृतिस्तदा निगडनिश्चलदेह उत्तिष्ठतीति प्रयोगापत्तिः । एवमामवातजडीकृतकलेवरस्योत्थान विषयिकृतिदशायामामवातजडीकृतकलेवर उत्तिष्ठतीति प्रयोगः स्यात् । एवं ' वृष्टौ कृतिसाध्यत्वभ्रमे वृष्टिविषयिणी कृति - यते वृष्टिस्तु न जायते वृष्टिं प्रति वृष्टिविषयककृतेः स्वरूपायोग्यत्वात् इति मते चैत्रे दृष्टिविषयकृतिदशायां चैत्रोवर्षतीति प्रयोगापत्तिरित्यत आह- जनकत्वं वेति । फलोपहितजनकत्वमित्यर्थः तेन निगडनिश्चलदेद्दादावतिप्रसङ्गाभाव इति
भावः ॥ ४ ॥
( रघु० ) एवमिति । तत्रोपदर्शितानुमानेन पाकजनकयत्नानुभवनिर्वाहेऽपीत्यर्थः । यत्नस्येति । पाकजनकयत्नस्येत्यर्थः । नन्वनुमानादुपस्थिते तथाविघयत्ने आख्यातोपस्थापितवर्तमानत्वस्यौत्तरकालिकशाब्दबोधोऽभ्युपगम्यत इत्यत आह-तस्येति । अपदार्थत्वात् पदानुपस्थितत्वात् । तथा च पदानुपस्थितार्थस्य शाब्दबोधाविषयत्वनियमेन तथा कल्पनाया असंभवादितिभावः । ननु तत्र यत्नबोधकपदमध्याहृत्य तथाविधबोधोऽङ्गीकार्य इत्यत आह- -अन्यत्रेति । जानाति रथो गच्छति इत्यादावित्यर्थः । व्युत्पन्नत्वादिति । शाब्दबोधपदजन्यपदार्थोपस्थित्यो स्तादृशकार्यकारणभावस्य सिद्धत्वादित्यर्थः । तथा च जानातीत्यादावाश्रयत्वे वर्तमानत्वान्वयवारणार्थं विशेष्यतावच्छेदकतासंबन्धेनाश्र - यत्वोपस्थापकाख्यातपदनिरूपितवृत्तिज्ञानजन्यवर्तमानत्वप्रकार कशाब्दबोधं प्रति प्रकारतासंबन्धेन ज्ञादिधातुनिरूपित वृत्तिज्ञानजन्योपस्थितेर्हेतुत्वकल्पनेन, रथो गच्छतीत्यादौ धात्वर्थे वर्तमानत्वान्वयवारणार्थं विशेष्यतावच्छेदकतासंबन्धेन
I