________________
१३ ग्रन्थः ] व्याख्याषट्कयुतः।
(राम) शङ्कते-अथैवमिति । एवं यत्नत्वविशिष्टस्याख्यातवाच्यत्वविरहे, यत्नस्य यत्नत्वविशिष्टस्य, तस्य यलत्वविशिष्टस्य, अपदार्थत्वात् पचती. त्यादावाख्यातानुपस्थाप्यत्वात् । तथाच शाब्दीह्याकांक्षेति न्यायेन तस्यापदार्थत्वे तत्र वर्तमानत्वेन शाब्दबोधविषयता न स्यादित्यर्थः । इदं च न्यायनये दूषणं, अर्थाध्याहारमते पदानुपस्थितस्य शाब्दविषयत्वं संभवतीति तन्मतेऽपि यत्ने वर्तमानत्वप्रतीत्यनुपपत्ति दर्शयति-अन्यत्रेति । स्वार्थव्यापारादन्यत्र धात्वर्थे जानातीत्यादौ । स्वार्थव्यापारे वेति, अग्निः पचतीत्यादौ पाकातुफूलव्यापारे । लडादेरित्यादिनाख्यातान्तरपरिग्रहः। वर्तमानत्वादीत्यादिपदेनातीतत्व-भविष्यत्वयोः परिग्रहः। तथाचाख्यातार्थवर्त्तमानत्वादेः प्रतिनियतान्वयव्युत्पत्तिविरोधा[उमाने? पत्ने]तदन्वयो भवन्मते (पि न)संभवतीति भावः। ननु चैत्रः पचतीत्यतश्चैत्रः पाकजनकवर्तमानव्यापारवानित्यन्वयबोधे जाते तत एव पक्षधर्मताज्ञानात् पाकजनकवर्तमानण्यापारत्वावच्छेदेन पाकजनकवर्तमानयलव्याप्तिप्रकारकस्मरणसहितात्
चैत्रःपाकजनकवर्तमानयलवानित्यनुमितिर्भविष्यति, तथाच चैत्रः पचतीत्यादौ चैत्रः पाकजनकर्वतमानयत्नवानिति प्रत्ययस्य नानुपपत्तिस्तादृशानुमितेरेव तादृशप्रत्ययवादित्याशय निराकुरुते-न चेति । निराकरणहेतुमाह-यत्नविगमेऽपीति । पाकजनकवर्तमानयलविरहेऽपीत्यर्थः, व्यापारानुत्तेः पाकजनकव्यापारस्य सचादित्यर्थः । एतावता पाकजनकवर्तमानव्यापारस्य पाकजनकवर्तमानयत्नस्य च कालिकी व्याप्ति निराकृता ।
ननु चैत्रः पचतीत्यादौ कृतिनिष्ठानुकूलताविशेषसंबन्धेन व्यापारत्वविशिष्टे धात्वर्थपाकान्वयो वाच्यस्तथाच तादृशानुकूलतासम्बन्धन पाकविशिष्टव्यापारः पाकजनकव्यापार एव यत्न एव, स च यत्नविगमे न तिष्ठत्येवेति कालिकव्याप्तो नोक्तव्यभिचार इत्यत आह-धर्मिविशेषेति । चैत्रः पचतीत्यादौ चैत्रादेः समवायेन पाकजनकवर्तमानयलवत्ता न प्रतीयेतेत्यर्थः । कालिकसंबन्धेन व्यापकताज्ञानात्कालिकसंबन्धेनव काले पाकजनकयत्नानुमितेरेवोत्पत्तेरिति भावः । ननु तादृशव्यापार प्रति ताशयत्नः समवायेन व्यापक इति व्यापकताज्ञानादेव धर्मिविशेषनिष्ठताप्रतीतिर्भवतीत्यत आह-ताधिकरणति । पचतीति वाक्यात् पाकजनकवर्तमानयत्नानधिकरणवृत्तेापारस्यापि पाकजनकत्वेन प्रतीतेरित्यर्थः । अत्रायं भावः-चैत्र:पचतीत्यादौ यत्ननिष्ठानुकूलताविशेषसंबन्धेन पाकस्य व्यापारेऽन्वयः, काष्ठं पचतीत्यादौ चानुकूलतासामान्येन संबन्धेन पाकस्य व्यापारेऽन्वय इति स्वाकारे व्युत्पत्ते दापच्या गौरवं स्यादित्युभयसाधारण्यायानुकूलतासामान्यसंसर्गेण व्यापारे पाकान्वयो वाच्यस्तथाचानुकूलतासामान्येन पाकविशिष्टव्यापारस्य चैत्रः पचतीत्यादौ प्रतीयमानस्य पाकजनकवर्तमानयले व्यभिचारितया न तेन तदनुमानं विशेषदर्शिनां स्यादिति ।