________________
वादार्थसंग्रहः
[ ४ भाग:
प्रयोगापतेर्दुर्वारत्वादिति चेत् न, साध्यताख्यविषयिताविशेषस्य चेष्टादिद्वारा फलोपधानाख्यजनकताविशेषस्य च संसर्गत्वनियमात् भगवत्कृतिश्च नास्मदादिकृतपाकस्य तादृशविषयितावती तादृशजनकतावती वा; अतएव पाकत्वेन पाकविषयिण्याः कृतेश्च पाकत्वविषयतानियमेऽपि पचेः पाकत्वे लक्षणायां पचतीति प्रयोगो न योग्यः, न वा उपादानतादिरूपपाकादिविशेष्यताकप्रवृत्तिसत्त्वेऽपि पचतीति प्रयोगो योग्यः, न वा क्रियान्तरगोचरप्रवृत्तिदशायां स्वरूपयोग्यतामादाय पचतीत्यादिप्रयोगः, नापि पाकजनकादृष्टजनककृतिमादाय पचतीत्यादिप्रयोगः । न च तथापि विषयिताया अपि संसर्गत्वे पाकायनुत्पत्तावपि पाकादिसाध्यकप्रवृत्तेर्वर्तमानत्वातीतत्वदशार्या पचत्यपचदित्यादिप्रयोगापत्तिर्दु
४२
वारा पचतीत्यादावाख्यातार्थवर्तमानत्वादेराख्यातार्थयत्नादावेवान्वयस्य निरूद्वित्वादिति वाच्यम् । विषयितासंबन्धमादाय तत्र तदानीं तादृशप्रयोगस्य इष्टत्वात्, फलोपधानात्मकजनकतासंसर्गस्य विषयत्व एव तत्र तदानीं तथा प्रयोगस्यायोग्यत्वाभ्युपगमात् । अतएव विषयितायाः संसर्गत्वे भ्रान्त्या वृष्ट्यादिसाध्यप्रवृत्तिमति पुरुषे वर्षतीति प्रयोगापत्तिर्भ्रमादुत्थानसाध्यकप्रवृत्तिमति निगनवदेहे उत्थानानुत्पत्तावपि उत्तिष्ठतीति प्रयोगापत्तिरित्यपि निरस्तम् । साध्यत्वाख्यविषयितासंसर्गमादाय तत्र तादृशप्रयोगस्येष्टत्वात्, फलोपधानात्मकचेष्टादिद्वारकजनकता विशेषसंसर्गविषयकत्व एव तादृशप्रयोगस्यायोग्यत्वाभ्युपगमादिति भावः ।
केचित्तु विषयित्वस्य संसर्गत्वे सर्वमेतदोषमभिसन्धायैव जनकत्वं वेत्यभिहितमित्याहुः ।
केचित्तु - साध्यत्वाख्यविषयिता द्विविधा स्वरूपयोग्यतात्मिका फलोपधानात्मिका च । तत्र फलोपधानात्मिकायाः साध्यत्वाख्यविषयिताया एव प्रकृते संसर्गत्वाभ्युपगमानोक्तातिप्रसङ्गः । अतएवं भोजनाद्यनुत्पत्तिस्थले भोजनादि - साध्यकप्रवृत्तिसत्वेऽपि भोजनं करोति भोजनं क्रियते इत्यादयो न व्यवहाराः फ लोपधानाख्यसाध्यत्वाख्यविषयिताया एव कृधातुप्रयोगे कर्मप्रत्ययार्थत्वात् । न च साध्यत्वाख्यविषयित्वादेः तादृशद्वैविध्ये मानाभावइति वाच्यम् । क्रियानुत्पतिदशायां तादृशप्रतीत्यभावस्य मानत्वादित्याहुः । तदसत् । क्वचित् स्वरूपयो ग्यतात्मक साध्यतावती प्रवृत्ति:, क्वचित् फलोपधानात्मकतद्वतीत्यत्र नियामकस्य दुर्वारत्वादिति दिक् ।
वस्तुतस्तु साध्यताख्यविषयता - फलोपहितजनकत्वोभयसंबन्धेनैव धात्वर्थस्य कृतावन्वयोऽभ्युपेयः, अन्यथा जनकतायाः संबन्धत्वकल्पे विषयतासम्बन्धकल्पोक्तपूर्वदोषोद्धारेऽपि नान्तरीयकमीनभोजनादौ मीनं भुङ्ग इत्यादिप्रयोगस्य दुर्वारत्वात्, दीधितिकारलिखनं तु वाकारस्य समुच्चयार्थतैवेत्युपपादनीयमिति 'विभावनीयम् ॥ ४ ॥