________________
१३ ग्रन्थः ]
व्याख्याषट्कयुतः।
४१
जनकव्यापारः जनकव्यापारत्वं, जनकयत्नस्य जनकप्रत्तित्वस्य, शक्यत्वात् शक्यतावच्छेदकत्वात् , जनकत्वप्रवेशस्याविशिष्टत्वेऽपि प्रवृत्तित्वस्य जातितया तदपेक्ष्य धर्मरूपस्य व्यापारत्वस्य उपाधित्वाद्दुरुत्वमिति भावः । जनकयत्न. त्वस्य शक्यतावच्छेदकत्वेऽपि जनकत्वप्रवेशस्यावश्यकतया जनकत्वमेव शक्यतावच्छेदकमस्तु लाघवात् किं यत्नत्वप्रवेशेनेत्यभिप्रायेण शङ्करते-'यत्नं विहायेति । यत्नं यत्नत्वं, मात्र सामान्ये । तथाचेति जनकसामान्ये शक्तो चेत्यर्थः । अचेतनेऽपीति, व्यापारानुबन्धिविशेष्यता सप्तम्यर्थः, अचेतनमुख्यविशेष्यकेऽपीत्यर्थः। प्रयोगः पचतीत्यादिप्रयोगः, अग्निः पचतीत्यादिप्रयोगोऽपीति समुदि. तार्थः । अपचत्यपीति । पाकजनकादृष्टवति भोक्तरि । पचतीतिप्रयोगः स्यादिति । ननु यत्नशक्तिवादिनस्तवापि तददृष्टजनककृतिकाले तामादाय तत्र तत्प्रयोगो दुर्वारः जनकताविशेषनिवेशेनातिप्रसङ्गवारणं तु ममापि नाशक्यमित्यत आह-पाकजनकेति । अतएव । जनकादृष्टजनककृतेः स्वाजनकत्वादेव । कृत्यादिजन्यत्व इति, आदिपदादिच्छादिपरिग्रहः । साध्ये कार्यत्वेन हेतुना साध्ये तजनकेति शित्यादिजनकेत्यर्थः । अभ्युपेत्याह-भावे वेति । तादृशेति , पाकजनकादृष्टजनकेत्यर्थः । त्वयापि जनकसामान्ये शक्तिवादिना त्वयापि, अन्यथा तदा तादृशप्रयोगापत्तेस्तत्रापि दुरत्वाददृष्टमादायातिप्रसङ्गस्तु तव दुर्वारः, अदृष्टस्यादृष्टमद्वारीकृत्यैव पाकजनकत्वादिति भावः । ननु कार्यस्य समवायो जनकस्य विषयतेति संबन्धनियतफलोपधानात्मकजनकतानिवेशात् अदृष्टमादाय नातिप्रसङ्ग इत्यतो नव्यमतमाह-यत्नमात्रं शक्यमिति । प्रवृत्तित्वमात्रं शक्यतावच्छेदकमित्यर्थः । न च प्रवृत्तित्वस्यैव शक्यतावच्छेदकत्वे पच्यत इत्यादौ पाकजन्यफलशालित्वरूपपाकादिकर्मत्वप्रतीतिः कथं स्यादिति वाच्यम् । तत्रात्मनेपदस्य कर्मवे लाक्षणिकत्वात् , कर्मत्वं फलवत्त्वं, तच्च फलमेव, जन्यतासंबन्धेन पाकादेर्धात्वर्थस्य तत्रान्वयः, फलत्वं च कार्यत्वं, प्रतियोगितासंबन्धेन प्रागभावादिमत्त्वमिति यावदिति भावः । विषयित्वं जनकत्वं वेति तात्पर्याधीनो व्यवस्थितो विकल्पः संबन्धान्तरेणान्वयस्य निराकासत्वबोधकः, न तु पूर्वास्वरसे विकल्पः, तेन जनकत्वस्य विषयित्वमपेक्ष्य गुरुत्वेऽपि चरमनिर्देशो नानुपपन्नः । ___ अथैवमस्मदादीनां पाकानुष्ठानदशायां परमेश्वरः पचतीत्यपि प्रयोगापत्तिः, तत्कृतेः सर्वविषयकतया कार्यमात्रजनकतया चास्मदादिकर्तृकपाकस्यापि तद्विषयस्वात्तजन्यत्वाच्च । न च प्रत्तित्वस्य शक्यतावच्छेदकस्य तत्कृतावभावात् न तथा प्रयोग इति वाच्यम् । तत्रापि धर्मिग्राहकमानसिद्धत्वात् । न चाख्यातार्थयनकर्तृपदार्थयोरवच्छेदकतासंबन्धेनैवान्वयस्य साकाङ्क्षत्वात् न तथा प्रयोगः, आत्मा पचतीत्यपि प्रयोगो नेष्यते, अहं पचामि त्वं पचसीत्यादौ उच्चारयित्रादिशरीर. मेव चैत्रत्वादिना अस्मदादिपदशक्यं, परमेश्वरो वेदं वेत्तीत्यत्रापि परमेश्वरपदं शरीरपरं न तु परमात्मपरमिति वाच्यम् । तथापि तदानीं कृष्णः पचतीति