SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ वादार्थसंग्रहः [४ भागः रस्य विद्यमानतादशायामपि पचतीतिप्रयोगात् पक्ष्यतीत्यप्रयोगात् कर्तृव्यापारस्यातीतत्वदशायां तादृशपाकस्य वर्तमानत्वदशायां पचतीत्यप्रयोगादपचदित्यपि प्रयोगाच्च । नन्वेवमग्निना पच्यते चैत्रेण पच्यते इत्यादौ यत्र वर्तमानत्वाद्यन्वय तत्राख्यातेन व्यापार-कृत्योरबोधनात् , साक्षाद्विक्लित्तिजनकस्पन्दस्य पाकत्वमते पाकानुकूलव्यापारासत्त्वदशायां पाकसत्वेऽपि तादृशप्रयोगाभावेन कर्तृव्यापारसस्वदशायाँ पाकासत्त्वेऽपि तादृशप्रयोगसत्त्वेन च धात्वर्थे तदन्वयस्य वक्तुमशक्यत्वात् , न च तत्र सुबर्थव्यापारादावेव तदन्वय इति वाच्यं तथासत्युक्तव्युत्पत्तिभङ्गापत्तेः, तथा तृतीयाद्यन्तपदासमभिव्याहृत-पच्यतेतण्डुल-इत्यादौ वर्तमानत्वायनन्वयप्रसंगस्य दुर्वारत्वाच । न च तत्रानन्वितवमेव वर्तमानत्वादिकमिति वाच्यम् । पाकानुकूलकर्तृव्यापारस्यातीतत्वानागतत्वदशायामपि पच्यतेऽयं तण्डुल इत्यादिव्यवहारापत्तरिति चेत् । न । तत्र वर्तमानव्यापारजन्यत्वादिरूपपारिभाषिकवर्त्तमामत्वादेराख्यातार्थत्वात् तस्य च धात्वर्थेऽन्वयात् , धातोः पाकानुकूलव्यापारे लाक्षणिकतया धात्वर्थ एव वर्तमानत्वाद्यन्वयसंभवाञ्चेति भावः । __ नन्वेवं काल: पाकजनकवर्तमानयत्नवान् पाकजनकवर्तमानव्यापारवत्त्वादित्यनुमेयं, यदा पाकजनकयत्क्षणत्तिव्यापारस्तदा पाकजनकतत्क्षणत्तियत्न इति सामान्यमुखी च व्याप्तिरित्याशय निराकरोति-न चेति। यत्नविगमेऽपीति। तथाच संयोगात्मकपाकजनकव्यापारवत्यपि क्षणे पाकजनकयलाभावाव्यभिचार इति भावः । ननु संसारस्यानन्तत्वात् सर्वदेव पाकजनक्रयत्नसत्त्वात् स्थूलकालस्य वर्तमानत्वघटकत्वाद्वा न व्यभिचारः । यद्वा चष्टोत्पत्तिक्षणो वर्तमानत्वघटक: तद्विशिष्टव्यापारवत्वं च हेतु: विशेषमुखी च व्याप्तिरतो न व्यभिचार इत्यत आह-धर्मीति। चैत्रादिनिष्ठतेत्यर्थः, तथाच पाकजनकवर्तमानयलवान् चैत्र इति धीनस्यादिति भावः । ननु चैत्रः पाकजनकवतमानयत्नवान् पाकजनकवर्तमानव्यापारवत्त्वात् इत्याद्यनुमेयं, स्थूलकालो विशिष्य चेष्टोत्पत्तिक्षणो वा वर्तमानत्वघटकः तेन न व्यभिचार इत्यत आह-तयधिकरणेति । यलव्यधिकरणस्यापि स्थाल्यादिकाष्ठाग्न्यादिसंयोगस्येत्यर्थः, संसारस्यानन्तत्वात् तथाच व्यभिचार इति भावः । ननु चैत्रत्वे सतीत्यनेन हेतुर्विशेषणीय इत्याशङ्कते-चैतन्योत। अचेतनेऽपि चैत्रत्वादिसंकेतसत्त्वादुक्तं चैतन्याविनाभूतेति । चैत्रत्वादीति, चैत्रत्वं स्वरूपतो विशेषणं, तेन चैत्रत्वत्वेन चैत्रत्वस्य शब्दानुपस्थितत्वे न क्षतिः । तेन पाकजनकवर्तमानव्यापारेण यत्नानुमानम् । शोभनादेरिति । शोभनत्वस्य स्थाल्यादिसाधारणतया शोभनत्वे सति तादृशव्यापारवत्वं न यत्नानुमापकमिति भावः । इदमुपलक्षणं, चैत्रः पचतीत्यादौ शाब्दबोधात्मकतादृशप्रतीतेरानुभविकत्वाचेत्यपि मन्तव्यम् । तत्रेति । यत्र यत्नशाब्दबोधस्तत्रेत्यर्थः । जनकव्यापारत्वस्य शक्यतावच्छेदकत्वेऽपि क्वचिल्लक्षणाया आवश्यकत्वे लाघवं किमित्याशयेन जनक्रयत्ने शक्तिवाद्येव दूषयति-मैवमिति ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy