________________
३९
लडादेर्वर्तमानत्वाद्यनुभावकत्वस्य व्युत्पन्नत्वाच्च । न च पाकजनकवर्त मानव्यापारेण पाकजनकवर्तमानयनानुमानं यत्नविगमेऽपि व्यापारा नुवृत्तेः । धर्मिविशेषनिष्ठता च यत्नस्य न प्रतीयेत तद्यधिकरणव्यापारस्यापि पाकजनकत्वात्, चैतन्या विनाभूतचैत्रत्वादिविशेषितेन तेन यत्नानुमानमिति चेन्न, सत्यं, चैत्रत्वाद्यप्रतीतावपि शोभनः पचतीत्यादौ शोभनादेः पाकजनकयत्नवत्त्वप्रतीतेरिति चेत् सत्यं तत्राख्यातस्य जनकयने लाक्षणिकत्वात् । मैवं, जेनकव्यापार मपेक्ष्य लाघवेन जनकयत्नस्यैव शक्यत्वात् । यत्नं विहाय जनकमात्रे शक्तिरस्तु लाघवात् तथाचाचेतनेऽपि प्रयोगो मुख्य एवेति चेत्, न, अपचत्यपि पाकजनकादृष्टवति पचतीति प्रयोगापत्तेः । पाकजनकाह - ष्टजनककृतेश्च न पाकजनकत्वं मानाभावात् । अतएव क्षित्यादेः कृत्यादिजन्यत्वे साध्ये तज्जनकादृष्टजनककृत्यादिनाअर्थान्तरप्रसङ्गोऽपिप्रत्युक्तः । भावे वा तादृशकृतिनिवारणायादृष्टाद्वारकत्वेनजन कतायास्त्वयापि वाच्यत्वात् । यत्नमात्रं शक्यं विषयित्वं जनकत्वं वा संबन्धमर्याद्या भासत इति तु नव्याः ॥ ४ ॥
१३ ग्रन्थः ]
व्याख्याषट्कयुतः ।
केचित्तु नन्वध्याहृतपदाद्यत्नोपस्थितौ वर्त्तमानत्वस्यान्वयो भविष्यतीत्यत आह-अन्यत्रेति । इत्याहुः ।
अन्यत्र चैत्रः पचतीत्यादेरन्यत्र क्रियायां स्पन्दे, एतच्च चलति - गच्छतीत्यादौ । इदमुपलक्षणं जानातीत्यादावपि धात्वर्थे वर्त्तमानत्वान्वयो बोध्यः । स्वाव्यापारे वेति । वाशब्दश्चार्थे, एतच्चाग्निः पचतीत्यादौ । लडादेरित्यादिपदाख्यातान्तरोपसंग्रहः, वर्त्तमानत्वादीत्यादिपदादतीतत्व- भविष्यत्त्वोपसंग्रहः । न च पचतीत्यादावपि धात्वर्थे वर्त्तमानत्वाद्यन्वये को दोष इति वाच्यम् । साक्षाद्विक्लित्तिजनकस्य स्पन्दस्य पाकत्वमते पाकभविष्यत्तादशायां तदनुकूलकर्त्तृव्यापा
१ अविनाभावम २ कर्तृज । ३ द्वारकत्वेन जनकतायारूढयापि वाच्यत्वादिति पाठः ।