________________
वादार्थसंग्रहः
[४ भागः बीजादिकरणकव्यापारजन्योङ्कुर इति बोधजनकस्य बीजादिनाङ्कुरः कृत इति प्रयोगस्यासंभवात् तस्य तदभिधायकत्वमावश्यकमिति भावः । ननु तथा सति कारकमात्रे कर्तृव्यवहारोऽशक्यपरिहार इत्यत आह-कर्तृपदे चेति । अत्र षष्ठयर्थे सप्तमी तस्याश्च घटकत्वमर्थः, पदपदं च वाक्यपरं, तथा च कर्तृरूपवाक्यघटकस्य कृञ इत्यर्थः । यदीति, वस्तुतः कारकमात्रस्य कर्तृपदार्थत्वे क्षतिविरहः, विवक्षात: कारकाणि संभवन्तीति शाब्दिकव्युत्पत्तेरेवातिप्रसङ्गभञ्जकत्वादिति भावः । ननु कृधातोरनन्तसंयोगविभागरूपव्यापारशक्तत्वापेक्षया लाघवात् यत्नशक्तत्वमेवोचितम् । उपदर्शितस्थले च व्यापारे लक्षणाङ्गीकारे नानुपपत्तिरिति चेन्न । बहुषु स्थलेषु तथा प्रयोगाभावेन तत्र शक्तिग्राहकाभावात् , अन्यथा पटपदालक्षणया कदाचित् घटबोधसंभवेन तस्यापि तत्र शक्तिकरूपना स्यादिति न किंचिदेतत् । • धातोापारवाचकत्वं व्यवस्थाप्याख्यातस्यापि तद्वाचकत्वं व्यवस्थापयतिएवं चेति । कृधातोापारशक्तत्वेन करोतीति विवरणादेयत्नत्वविशिष्टे आख्या. तपदशक्तिकल्पनाभावे चेत्यर्थः । अचेतनेऽपीति । काष्ठादावपीत्यर्थः । बाधकं विनेति । व्यापारे आख्यातस्य शक्तिकल्पने बाधकं विनेत्यर्थः । गौणत्वायोगादिति । व्यापारे आख्यातस्य लक्षणकल्पनाया अन्याय्यत्वादित्यर्थः । जनकव्यापारेति । शक्यतावच्छेदककोटी जनकत्वांशनिवेशस्तु पचतीत्यादिवाक्यजन्यबोधजनकत्वस्य प्रकारविधया भानानुभवाभिप्रायेण । तदर्थ इति । आख्यातपदार्थ इत्यर्थः । नन्वत्र गुरुजनकत्वमपेक्ष्य पूर्वकालवृत्तित्वमात्रं शक्यतावच्छेदककोटौ निवेशनीयं लाघवादित्यत आह-तण्डुलेति । तथा चोपदर्शितापत्तिवारणार्थ गुरुत्वेऽप्यनन्यगतिकतयाऽनन्यथासिद्धनियतपूर्ववृत्तित्वरूपजनकत्वस्यैवाख्यातपदजन्यतावच्छेदककोटौ निवेशनमुचितमिति भावः ।
तहीति ।आख्यातस्य यत्नत्वविशिष्टावाचकत्व इत्यर्थः । यत्नाविनाभूतेति। यत्नजन्यत्वव्याप्यो य: पाकादिक्रियाविशेषस्तेन हेतुना तत्कारणीभूतस्य यत्नस्यानुमानादित्यर्थः । अत्र पाकादिक्रियाहेतुत्वोत्कीर्तनं च तादात्म्यसंबन्धस्य व्याप्यताघटकत्वमभ्युपेत्य। तथा च पाको यत्नजन्य: पाकादित्यनुमानापाके यत्नजन्यत्वसिद्धिकाले तुल्यवित्तिवेद्यतया यत्ने पाकजन्यत्वसिद्धया पचतीत्यादौ पाकजनकयत्नानुमवनिर्वाह इति भावः । नन्वाख्यातस्य व्यापारवाचकत्वे पचतीत्युत्तरं पाकजनकयत्नवानिति विवरणासङ्गतिरित्यत आह-पचतीति । तात्पर्यविवरणमिति । तात्पर्यविषयीभूतार्थविवरणमित्यर्थः । न च यादृशवाक्यस्थपदाच्छ