________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः।
क्तिलक्षणान्यतररूपवृत्त्या यादृशार्थबोधः स एव तस्य तात्पर्यविषयीभूतः । प्रकृते च पचतीत्यादिवाक्यघटकीभूतपदात् वृत्त्या यत्नाबोधे कथं तत्र तत्तात्पर्यविषयत्वमिति वाच्यम् । धूमोऽस्तीति वाक्यस्य तत्प्रयोज्यानुमितिविषयीभूतवह्नितात्पर्यकत्ववत्पचतीत्यादिवाक्यस्यापि स्वप्रयोज्यानुमितिविषयीभूतयत्नतात्पर्यकत्वसंभवात् । तात्पर्य चास्माच्छब्दादेतर्थबोधो भवत्वित्यादिवाक्येनाभिलप्यमानाएतच्छब्दप्रयोज्यत्वप्रकारिका एतदर्थबोधोत्पत्तीच्छा इति ।
ननु विवरणस्य परंपरया तात्पर्यविषयीभूतार्थपरत्वकल्पने सर्वत्र तस्यासंभवे शक्तिग्राहकत्वमनुपपन्नं स्यादत आह-अन्यथेति । अन्यलभ्यार्थस्यापि विवरणाच्छक्तिकल्पन इत्यर्थः । तथा च यत्रान्यलभ्यत्वं नास्ति तत्रैव विवरणस्य शक्तिग्राहकत्वमायातीति भावः ॥ ३ ॥
(जय०) आख्यातविवरणस्य हेतोः पक्षधर्मतां साधयति-कुनश्चेति । अत्र कृताकृतविभागेनेति कारिकांशं प्रमाणयतिक्रियेति । क्रिया धात्वर्थमात्रम् । प्रकृते चावयवसंयोगादिलक्षणा ग्राह्या । अङ्घरस्यापि ईश्वरयत्नजन्यत्वेन कृतत्वात् तत्प्रतिसंधानेन वस्तुगत्या कृतव्यवहारास्पदत्वाचाह-प्रतिसंधाना. दिति । तथा च वस्तुगत्या तादृशत्वेऽपि कृतिजन्यत्वप्रतिसंधानाभावकाले क्रियाजन्यत्वप्रतिसंधानात् कृतव्यवहाराभावान्न क्रियाया: कृअर्थत्वं (किंतु) कृतैरेवेति भावः । कृञः कृतोपि कर्तृशक्त्या कर्तृपदात्कृतिकर्तेति बोधः स्यादित्याशङ्का दृष्टान्तेन निरस्यन् विशेषदर्शिनं प्रत्युक्तव्यवहारस्याप्रमाणत्वात्कर्तृरूपव्यवस्थयेति तदंशं प्रमाणयति-ज्ञानेति । सविषयकधातूत्तरकर्तृकृवामाश्रये निरूढलक्षणाया ज्ञात्रादिस्थले कृप्तत्वात्कृजो यत्नार्थकत्वे एव यत्नाश्रयः कर्तृपदार्थों भवतीत्यर्थः । क्रियाया इत्यादि । क्रिया पाकच्छिदादि तदनुकूलव्यापारः पाकाद्यनुकूलव्यापारः । अत्र क्रियायाः कृअर्थत्वेऽभेदस्तदनुकूलव्यापारस्य तत्त्वे तु निरूपितत्वं पाकं करोतीत्यादौ द्वितीयार्थ इति बोध्यम् । प्रथमं दूषयतितदेति । क्रियाश्रय इत्यर्थस्तथा च तण्डुलः पाककर्तेति व्यवहारः स्यान्न चैत्रादिरिति भावः । द्वितीयं दूषयति-कारकमात्रमिति । कारकमात्रस्यैव क्रियानुकुलव्यापारवत्त्वादन्यथा कर्तृत्वव्याहतेरिति भावः । अङ्कुरः कृत इत्येतावन्मात्रस्येश्वरयत्नजन्यत्वेनाप्युपपत्तेरित्याह-बीजा दिनेति । तस्य कृञः । कर्तृपदे चेति । तव कारकपदे क्रियानुकूलव्यापार इवेति भावः। क्रियादीति, आदिपदादनुकूलव्यापारपरिग्रहः । अचेतने रथादौ गमनस्य तण्डुलकाष्ठस्थाल्यादौ च. पाकस्य कर्तृत्वव्यवहारो भवत्येव । तदुक्तं वैयाकरणैः-विवक्षावशात्कारकाणि