________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
दित्यत आह—कृयश्चेत्यादिना । क्रियाजन्यत्वेति । संयोगरूपव्यापारजन्यत्वप्रतिसंधानाविशेषेऽपीत्यर्थः। तथा च कृधातोर्व्यापारार्थकत्वे पटाकुरादौ व्यापारजन्यत्वप्रतिसंधानकाले कृतिजन्यत्वप्रतिसंधानाप्रतिसंधानाभ्यां पटः कृतोऽङ्कुरो न कृत इति व्यवहारः सर्वानुभवसिद्धो न स्यात् तन्मते तदाङ्कुरे व्यापारजन्यत्वज्ञानसत्वेन व्यापारजन्यत्वरूपव्यवहर्तव्यताज्ञानाभावादिति भावः । कृधातोर्यनार्थकत्वे युक्त्यन्तरमाह-ज्ञानादिवदिति । ज्ञाता इत्यादौ यथा आश्रयबोधकतृजपदसमभिव्याहृतज्ञाधातुपदान्ज्ञानाश्रयश्चैत्र इति बोधस्तद्वत्कर्तेत्यत्राप्याश्रयबोधकतृचपदसमभिव्याहृतकृधातुपदात्कृत्याश्रय इति बोध उत्पद्यते, स च कृतो यत्नार्थकत्वं विना न संभवतीति तस्य यत्नार्थकत्वमावश्यकमिति भावः । इदमत्रावधेयम्-तृजादिपदस्य कर्तर्येव शक्तिः । न चलाघवात्तजादिपदस्य कृतौ शक्तिरङ्गीक्रियतामिति वाच्यम्। तथा सति पक्ता चैत्र इत्यादौ चैत्रे तृचपदार्थकृते: समवायसंबन्धेनान्वयबोधासंभवात् । नामार्थधात्वर्थयोरिव नामार्थयोरपि अभेदातिरिक्तसंबन्धेनान्वयबोधस्याव्युत्पन्नत्वात् , अन्यथा घट: कर्मत्वमित्यादिनिराकाङ्क्षवाक्यादपि कर्मतायामाधेयतासंबन्धेन घटान्वयबोधप्रसङ्गात् । अत्र तृचो नामत्वं नास्तीति तु न संभावनीयम् । स्याद्यन्तत्वेन तस्यापि नामत्वात् । तदाहरभियुक्ताः स्याद्यन्तमिह नामेष्टमित्यादि। ज्ञाता इत्यादौ तु कृते नानुकूलत्वाभावेन ज्ञानानुकूलकृत्याश्रयाबोधासंभवात् सविषयवाचकधातुपदसमभिव्याहारस्थले तृचआश्रयत्वे लक्षणावश्यकीति । ननु ज्ञाता इत्यादौ तृचो लक्षणाङ्गीकारेऽपि कर्तेत्यत्र तृच्शक्त्यैव कृत्याश्रयबोधोऽस्तु किं कृधातोर्यत्नशक्त्येति चेन्न । तथा सति कर्तेत्यत्र धातुवैयर्थ्यापत्तेः । तस्यावैयर्थे तत्पदात् व्यापारानुकूलकृत्याश्रय इति बोधापत्तेश्च । न च तत्र कृधातुपदं तात्पर्यग्राहकमिति वाच्यम् । प्रत्ययानां प्रकृत्यान्वितस्वार्थबोधकत्वव्युत्पत्तेरिति । ननु कर्तृपदात्कृत्याश्रयबोधश्चेत्संभवति तदैव कुलो यत्नार्थकत्वमायाति तदेव न, तत्तत्पदात् तत्तस्त्रियाश्रयस्य तदनुकूलव्यापाराश्रयस्य बोधस्यैवाङ्गीकारादित्यत आह-क्रियाया इत्यादि । कृधातोः क्रियार्थकत्वमभ्युपेत्य कर्तृपदाक्रियाश्रयमात्रे कर्तृव्यवहारः स्यात् । तस्य क्रियानुकूलव्यापारार्थत्वमभ्युपेत्य कर्तृपदात् तादृशध्यापाराश्रयबोधाङ्गीकारे च कारकमात्रे कर्तृव्यवहारः स्यात् । कारकमात्रस्यैव तथाविधव्यापाराश्रयत्वादिति भावः। ___ कृत्रो व्यापारशक्तिवादिमीमांसकः प्रत्यवतिष्ठते-अथेति । अङ्कुरः कृत इति प्रयोगस्य कृञो यत्नार्थकत्वेऽपीश्वरीयकृतिमादाय संभवेन तस्य व्यापारार्थकतासाधकत्वायोगादाह-बीजादिनेति । तथा च कृजो व्यापारार्थकत्वं विना