________________
वादार्थसंग्रहः
[४ भागः
पाठेऽपि कारणत्वान्वितनिरूपितत्वस्य तृतीयार्थत्वादयमेवार्थः, तथाच चत्रः पाकजनकयलवान् पाकवत्त्वादित्यनुमानप्रकार इति भावः ।।
केचित्तु-यत्नाविनाभूतेति तादात्म्यसंबन्धेन जनकयत्नध्याप्येनेत्यर्थः, "क्रियाविशेषेण धातूपस्थापितपाकादिविशेषणत्वेन, कारणस्य जनकत्वविशिष्टस्य अनुमानात् जन्यतासंबन्धेनानुमानात् । अयं पाको जनकयत्नवान् पाकान् इत्यनु. मानप्रकारः । सौरादिपाकेऽप्यन्ततो भगवालस्यैव सत्त्वात् न व्यभिचारः । तदनन्तरं च अनुमानोपस्थितस्य जनकताविशिष्टयलस्य एकदेशे जनकत्वे निरूपितत्वसंबन्धेन धातूपस्थापितस्य पाकस्य विशेषणतया अन्वयः शाब्द इति भावः । एतेनानुमानापाको जनक्रयत्नवानिति प्रतीत्युपपादनेऽपि पाकजनकयत्न इति 'विलक्षणानुभवस्यानुपपनत्वादिदमसङ्गतमिति परास्तम् । अग्रे च अथैवमित्यत्र वर्तमानपदं पाकवत्त्वस्याप्युपलक्षणम्-इति ध्याचक्रुः ।
नन्वेवं पचति पाकजनकयलवानिति विवरणमसंगतं तेन प्रकृततिप्पदस्य यत्नपदोस्थापकत्वबोधनादित्यत आह-पचतीति। तात्पर्यविवरणमिति। परंपरया यत्नपदशक्यप्रतीतिप्रयोजकताप्रकारकतदिच्छयोधरितत्वस्य तिप्पदं बोधकं न तु तदुपस्थितिजनकताबोधकमित्यर्थः । यद्वा तात्पर्यविवरणमिति तत्परत्वमात्रबोधकं यत्नपदशक्यप्रतीतौ तिप्पदज्ञानोत्तरत्वमात्रबोधकमिति यावत् , न तु तिप्पदे तदुपस्थितेर्जनकत्वबोधकमित्यर्थः । ननु विवरणेन स्वप्रतिपायोपस्थापकत्वमेव विद्रियमाणे बोध्यते इत्यत आह-अन्यथेति | विवरणस्य स्त्रप्रतिपायोपस्थापकत्वबोधकत्वनियमे इत्यर्थः । धर्मिणोऽपि आख्यातार्थविशे. प्यत्वेनाभिमतस्य यत्नाश्रयस्यापि, वाच्यतापत्तेः भवन्मते आख्यातस्य वाच्यतापत्तेः, मतुप्पदशक्योपस्थापकत्वस्य यथोक्तविवरणेन तिपोऽबोधनात् न तनियम इति भावः ॥ ३ ॥
(राम०) ननु करोतेर्यत्नार्थकत्वे निरुक्तविवरणबलादाख्यातम्य कृतिवाचकत्वं सिध्यति तदेव च न सिद्धं परेण तस्येव करोतेरपि व्यापारार्थकत्वाभ्युपगमा. दित्यत आह-कृअश्चेति। कृधातोरित्यर्थः। यत्नाभिधायित्वं यनशक्तत्वम्। अतः “ कृताकृतविभागेन कर्तृरूपव्यवस्थया। कृयो यनाभिधायित्वं न व्यापारप्रस. क्तता' इत्याचार्यकारिकोक्तकृताकृतविभागेनेति प्रथमयुक्तिमाह-क्रियेति । अत्रायं भावः-पटादिः कृतोऽङ्करादिर्न कृत इत्यादौ कृत इत्यस्य यदि क्रियाजन्यत्व. विशिष्टोऽर्थः तदा पट इव अङ्करेऽपि कृतव्यवहारापत्तिः, आरम्भकसंयोगादिरूपक्रियाजन्यत्वप्रतिसंधानस्य व्यवहर्त्तव्यतावच्छेदकविशिष्टज्ञानविधया भवन्मते कृतव्यवहारनियामकस्य तत्र सत्त्वादिति क्रिया न कृधातोरर्थः । ननु कृधातोर्यला. र्थकत्वेऽपीश्वरीययनजन्यत्वमादाय उभयत्र कृतव्यवहारापत्तिर्दुरैवेत्यत आहयत्नजन्यत्वेति । ईश्वरीयकृतेरनुपस्थितिदशायामङ्कुरे यलाजन्यत्वभ्रमात्मकप्र.