________________
१३ ग्रन्थः] व्याख्याषट्कयुतः दशायां निरुक्तयत्नाजन्यत्वप्रतिसंधानादथैरे अकृतव्यवहारो न स्यादिति वाच्यं, तदानीं तदव्यवहारे तत्र कृओ यले लाक्षणिकत्वात् निरुक्तोभयत्वेन निरुक्तोभयसंबन्धविशिष्टस्य च निष्ठार्थत्वात् । अतएव नान्तरीयके मया न कृतमिति व्यवहारोऽपि व्याख्यातः । क्रियाजन्यत्वमादाय तत्र कृतव्यवहारे इष्टापत्तिरित्येवमाशयः । नन्वेवं कारकमात्र एव कर्तृव्यवहार इत्यत आह-कर्तृपदे चेति । निरूढिलक्षणेति प्रवृत्तौ निरूढिलक्षणेत्यर्थः, भवतां कारकपदे कृओ व्यापार इव । अन्यथा कर्मादौ कारकव्यवहारो न स्यादिति भावः । यदीति । क्रियाद्याश्रयमात्रे, क्रियादिरूपजनकव्यापाराश्रयमात्रे कर्मादाविति यावत् , न तत्प्रयोगः, न कर्तृपदप्रयोगः । वस्तुतस्तु कर्मादावपि कारकपदप्रयोग इव कर्तृपदप्रयोगोऽभ्युपेयः, अतएव “ विवक्षातः कारकविभक्तयो भवन्ति" इति शाब्दिकाः । इत्यभिप्रायो यदीत्यनेन मुचितः । एवंचेति, कृयो यनावाचकत्वे इत्यर्थः । जनकल्यापार एवाख्यातार्थ इत्यग्रेतनेनान्वयः, उक्तहेतुद्वयस्य प्रत्तित्वविशिष्टे शक्तिसाधकत्वाभावादिति भावः । व्यापारत्वञ्च धर्मत्वं, तच्च यमसाधारणमपि, तेन परमेश्वरो वेदं वक्तीत्यादिप्रयोगोपपत्तिः । अत्र यत्नानुभवोऽनुभवसिद्ध इत्यभिप्रायेण । अन्यथा परमेश्वरपदस्य शरीरपरत्वे वेदाभिन्नशब्दानुकूलकण्ठाभिघातव्यापारवानिति बोधो व्यापारबोधकत्वेऽपि स्यात् । असाधारणजनकताया एव शक्यतावच्छेदकतया च नेश्वरः पचति कृष्णः पचतीत्यादिप्रयोगः । अन्यथा प्रवृत्तिवादिनामप्यप्रतीकारात् प्रवृत्तित्वस्य भगवानेऽपि सत्वात् ईश्वरो वेदं वक्तीत्यादौ वेदाभिन्नासाधारणशब्द जनकता भगवद्यतेऽपि स्वीकरणीया अतो न दोषः, आत्मा पचतीत्यादिप्रयोगे चेष्टापत्तिरिति निगर्वः । ननु तथापि विनिगमकाभावात् शक्तिसाधकहेतुनैव प्रवृत्तित्वविशिष्टे शक्तिः सेत्स्यतीत्यत आह-अचेतनेऽपीति । अग्नि-काष्टादावपीत्यर्थः । पचतीत्यादिप्रयोगात् व्यापारत्वे बुद्धि विशेष्यतासंबन्धेन पचतीतिप्रयोगसत्त्वात्, रथो प्रच्छतीत्यादावाश्रयत्वप्रतीतेरेव नव्यैरुक्तत्वात् तत्परित्यागः । ननु तत्राख्यातस्य व्यापारे लक्षणा इत्यत आह-क्रियेति । क्रिया' पाकः, गौणत्वं लक्षणाजन्यत्वम् । नन्वेवं तण्डुलक्रयणादेरपि पाकानुकूलत्वात् तदानीमपि पचतीत्यादिप्रयोगः स्यादित्यत आह-तण्डुलेति । एतेन शक्यतावच्छेदकजनकत्वदले अनन्यथासिद्धत्वांशस्य प्रवेशे प्रयोजनं छलतो दर्शितम् । .. जनकप्रवृत्तित्वस्याख्यातशक्यतावच्छेदकत्ववादी शङ्कते-कथमिति। तीति
आख्यातस्य जनकप्रवृत्तित्व विशिष्टाशक्तत्वे इत्यर्थः। ‘पचतीत्यादौ' चैत्रः पचतीत्यादौ, ' पाकजनकयत्नानुभवः ' पाकजनकप्रत्तित्वेनानुभवः, “यत्नाविनेत्यादि । चैत्रत्वादिविशिष्टजनकतासंबन्धेन पाकजनकव्याप्येनेत्यर्थः। क्रियाविशेषकारणस्येति पाठः, पाकलक्षणक्रियाविशेषजनकस्य यत्नस्येत्यर्थः । कियाविशेषेणेति तृतीयान्त