________________
३० वादार्थसंग्रहः
[४ भागः वात् । पाकं करोतीत्यादौ स्तोकं पचतीत्यादाविवाभेदः संसर्गः, पाकौ करोति पाकान् करोति पाकः क्रियते इत्यादौ च कर्मविभक्तरेवाभेदोऽर्थः, तथाचा. दप्रकारकोऽन्वयबोधः इत्यत आह-क्रियेति । क्रिया' अवयव विश्रामानुकूलःस्पन्दः। यत्नजन्यत्वाजन्यत्वेति । यत्नजन्तत्वं यत्ननिरूपितफलोपधानात्मकजन्यत्व-साध्यत्वाख्यविषयत्वोभयसंबन्धवत्त्वं, 'यलाजन्यत्वञ्च' यननिरूपिततादृशोभयसंबन्धवद्भिन्नत्वं, तादृशोभयत्वेन तादृशोभयसंबन्धविशिष्ट एव कृधातुसमभिव्याहृतनिष्ठाप्रत्ययेन बोध्यते, भ्रभात् प्रत्तस्य गुरुतरभारोत्तोलनादौ कृतव्यवहारवारणाय फलोपधानात्मकजन्यत्वप्रवेशः, नान्तरीयके कृतव्यवहारवारणाय साध्यत्वाख्यविषयत्वप्रवेशः । अतएव नान्तरीयके मत्तो भूतं न तु मया कृतमिति व्यवहारः। व्यवहारं प्रति व्यवहर्त्तव्यज्ञानस्यैव हेतुत्वात् प्रतिसंधानप्रवेशः । तथा च क्रियायाः कृअर्थत्वे क्रियाजन्यत्वस्यैव तादृशव्यवहारविषयतावच्छेदकतया तजन्यत्वप्रतिसंधानदशायां निरुक्तयलाजन्यत्वप्रतिसंधानादकृतव्यवहारानुपपत्तिरिति भावः । इदमुपलक्षणं नान्तरीयकेऽपि मया कृतमिति व्यवहारप्रसङ्गान्मया न कृतमिति व्यवहारप्रसङ्गाचेत्यपि बोध्यम् । ज्ञात्रादिवदिति ज्ञातृपदादिवदित्यर्थः। 'आश्रयपरेति, तथाच कृतः कृतिमतिशक्तावपि सविषयधातूत्तरस्य तस्याश्रयत्वे निरू दिलक्षणा, अन्यथा कनेंत्यत्र कृतिकर्ता इत्यन्वयः स्यात् स चायोग्य इति भावः ।
नन्विदमेवासिद्ध किन्तु कर्तृपदं क्रियाश्रयबोधकमनुकूलव्यापाराश्रयबोधक वेत्यत आह-क्रियाया इति । 'क्रिया' स्पन्दः, अनुकूलव्यापारस्य वेति पाठः, तदनुकूलव्यापारस्येति पाठः प्रामादिकः । घटं करोति घटस्य कत्तेत्यादौ स्पन्दा. नुकूलव्यापारस्य अर्थत्वानभ्युपगमात् पाकं करोतीत्यादिस्थलविशेष एव तदभि. धानमतस्तादृशपाठेऽपिन दोष इत्यपि कश्चित् । प्रथमे दोषमाह-तदाश्रय इति । क्रियाश्रय इत्यर्थः, तथाच तण्डुलः पाककर्ता इत्या व व्यवहारः स्यादिति भावः । एतच्च साक्षाद्विलित्यनुकूलस्य स्पन्दस्य पाकत्वमते । द्वितीये दृषणमाह-कारकमात्रं वेति । स्थाली-काष्ठादेरपि पाकानुकूलसंयोगादिसत्त्वात् पाकादिकर्तृव्यवहारः स्यादिति भावः। __कृधातोराख्यातस्य च जनकव्यापारत्वमेव शक्यतावच्छेदकमिति केचिद्वदन्ति तन्मतं शङ्कते-अथेति । रथोगच्छति गमनं करोतीति, तथाच तद्विवरणवशात् यत्नो न कृअर्थः, किन्तु जनकव्यापार एवार्थः । रथो गमनं करो तीत्यादौ च कर्मविभक्तनिरूपितत्वमेवार्थः, कृअर्थैकदेशे जनकयने च तदन्वयः, आख्यातस्याश्रयत्वमर्थः, गमनविशिष्टनिरूपिताधारत्वसंबन्धेन रथादौ तदन्वयः, तेनान्यदीयगमनानुकूलनोदनादिमति निश्चले गमनं करोतीति न व्यव. हार इत्येवमाशयः । बीजादिनेति । निष्ठत्वं तृतीयार्थः, अन्वयश्चास्य कृमर्थे व्यापारे, जन्यत्वरूपेण जन्यमानं निष्ठार्थः । न चैवं क्रियाजन्यत्वप्रतिसंधान