________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
२९
कृत्रश्च यत्नाभिधायकत्वं क्रियाजन्यत्वप्रतिसंधानाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसंधानात् पटाकुरयोः कृताकृतव्यवहारात् ज्ञानादिवदाश्रयपरतृजन्तकर्तृपदस्य यत्नाश्रयबोधकत्वाच्च । क्रियायास्तदनुकूलव्यापारस्य वा कृमर्थत्वे तदाश्रयःकारकमात्रं वा कर्तृपदार्थः स्यात् । अथ रथो गच्छति गमनं करोति बीजादिना अङ्कुरादिः कृत इति विनापि यत्नं कृतः प्रयोगान्न तस्य यत्नवाचकत्वं, कर्तृपदे च कृतो यत्ने निरूढिलक्षणा, यदि क्रियाद्याश्रयमात्रेण न तत्प्रयोगः, एवश्चाचेतनेऽपि पचतीत्यादिप्रयोगात् क्रियानुकूलव्यापारप्रतीतेर्बाधकं विना गौणत्वायोगात् जनकव्यापार एवाख्यातार्थः, तण्डुलक्रयणादेश्च न पाकादिजनकत्वमिति नातिप्रसङ्गः । कथं तर्हि पचतीत्यादौ पाकजनकयत्नानुभव इति चेत् , यत्नाविनाभूतपाकादिना क्रियाविशेषकारणस्य यत्नस्यानुमानात् । पचति पाकविषयकयत्नवानिति तात्पर्यविवरणम् । अन्यथा धर्मिणोऽपि वाच्यतापत्तेः ॥३॥ स्वीकार्यस्तथाच धात्वर्थनामार्थयोर्भेदान्वयबोधे ज्ञातत्वेनैव विरोधित्वमुनेजिकास्तत्फलबलेन तत्तदुपस्थितयः स्वीकार्याः । एवं च जानातीत्यादिसमभिव्याहृतज्ञानस्थाप्युत्नेजकत्वादाश्रयत्वसंसर्गेणेति ज्ञानादिप्रकारको बोधो मणिकृदुक्तो नानुपपन्नः । आख्यातार्थोऽत्र संख्यावर्तमानत्वादिकमेव । संख्यान्वयोऽपि प्रथमान्तपदोपस्थाप्ये । तेन भावनान्वय्यभावेऽपि न तदन्वयानुपपत्तिरित्याहुः ॥ २ ॥
(मथु०) करोतेः प्रत्तिवाचकत्व एव कृधातुशक्यप्रतिपादकत्वेन प्रत्तित्वविशिष्टविशेष्यकजिज्ञासानिवर्त्तकज्ञानजनकत्वेन वा हेतुना आख्यातस्य तद्वाचक्रत्वं सिध्यति, तस्य क्रियादिवाचकत्वे क्रियादिवाचकपदे प्रथमहेतोर्व्यभिचारात् द्वितीयहेतोश्च किं करोतीतिप्रभस्य यत्नविषयकत्वासिद्धया पक्षटत्तित्वासिद्धेरतः कृषओऽपि प्रवृत्तिवाचकत्वमाचार्ययुक्तिभ्यां व्यवस्थापयति-कृञश्चेति । 'यत्नाभिधायकस्वं' प्रवृत्तित्वविशिष्टाभिधायकत्वम् । नन्विदमसिद्ध क्रियाया एव तच्छक्य.