________________
२८ वादार्थसंग्रहः
[४ भाग ज्ञानगमनादौ, तत्र धात्वर्थे नामार्थे च तत्तत्कारकबोधे व्यभिचारात्तादृशलक्षण:ज्ञानादिकालीनतत्तदानुपूर्वीज्ञानविशिष्टवोधे तत्कारणत्वं च तण्डुलं पचति चैत्रो जानातीत्यादितस्तथाबोधे न बाधकम् । न च भेदेन तण्डुलादिविशिष्टपाकादिबोधकतत्तत्समभिव्याहारविशेषज्ञानरूपविशेषसामग्र्यभावान्नात्र तथा बोधः इति वाच्यम् । द्वितीयाद्यन्ततण्डुलादिसमभिव्याहृतपच्यादेरपि कर्मत्वादिसंसर्गेण • तण्डुलादिविशिष्टपाकादिबोधकत्वस्य संभवात्तण्डुलादिविशिष्टकर्मत्वाद्यवान्तरवो. • धादिकल्पने गौरवस्य प्रागुक्तत्वात् । तस्मात्प्रागुक्तमेवानुसतव्यम् । ___ अथ विपरीतव्युत्पन्नस्य घटः कर्मत्वमित्यादितस्तण्डुलः पंचतीत्यादित
शाब्दबोधान्नामार्थप्रकारकवोधे प्रत्ययादिजन्योपस्थितेः कारणत्वे व्यभिचारः ; 'न च तत्र मानस एव बोधः, पदजन्यपदार्थोपस्थितरुपनयविधया हेतुत्वाच शाब्दबोधत्वारोपमात्रमिति वाच्यम् । संशयसामग्रीदशायां मानसनिश्चयासंभवात् । भवति हि चैत्रो गौररूपवान्न वेति सन्दिहानस्य चैत्रो गौररूपवानित्यादिवाक्यान्निर्णयः । न च व्युत्पन्नपुरुषीये व्युत्पत्तिविशिष्टे वा तादृशबोधे तस्याः कारणत्वं, व्युत्पत्तिश्च भेदेन नामार्थबोधे प्रत्ययजन्योपस्थितिः कारणमित्यादिका- र्यकारणभावशानम् । यदि च सद्युत्पन्नस्यासद्व्युत्पन्नत्वेनाभिमतस्य तादृशबोधे कारणत्वज्ञानं विपरीतव्युत्पन्नस्यापि इति विभाव्यते तदा संस्कृतपुरुषीयतथाशाब्दबोधे कार्यकारणभावज्ञानं व्युत्पत्तिः । तदुक्तं शब्दालोके मित्रैः ‘साक्षाजनक• त्वज्ञानं व्युत्पत्तिरिति' । व्याकरणसंस्कृतपुरुषीयवाक्यार्थबुद्धावेव तद्वाक्यस्य सामर्थ्य मिति चेति वाच्यम् । विपरीतव्युत्पन्नस्यापि व्युत्पन्नपुरुषीयशाब्दबोधापत्तेः । प्रत्ययजन्योपस्थिते निकायाः सत्त्वात् । मैवम् । व्युत्पत्त्यव्युत्पत्त्योरपि व्युत्पन्नाव्युत्पन्नयोर्बोधे हेतुत्वात् । एवं तात्पर्यज्ञानादिकं व्युत्पन्नादिबोधे हेतुरिति ज्ञानसहकृतमेव तात्पर्यज्ञानादिकं व्युत्पन्नादिबोधे हेतुस्तथा यादृशशाब्दबोधे यादृशानुपूर्वीज्ञानं कारणं तत्तत्कारणत्वज्ञानमपि कारणम् । वस्तुतस्तु तादृशशाब्दबोधे अकारणत्वज्ञानमसाधुत्वज्ञानपर्यवसन्न प्रतिबन्धकमेव नातो व्याकरणसंस्कृतत्वादिज्ञानविधुराणां शाब्दबोधानुपपत्तिः। न वा अपभ्रंशादसाधुत्वेनाज्ञातात . शाब्दबोधो दुर्घट इति दिक् । ___ परे तु एको वृक्षः पञ्च नौका भवन्ति इत्यत्र पञ्चनौकाऽभेदान्वयस्य विरुद्धवचनावरुद्धे वृक्षेऽसंभवात् पञ्चनौकाभवनाश्रयो वृक्ष इति बोधो वाच्यः । एवं मैत्रेणौदनः पक्त्वा भुज्यते इत्यत्र ओदनस्य कर्मतया पाकेऽन्वय एव ओदनकर्मकपाकस्यानन्तर्यबोध: संभवति इति धात्वर्थे नामार्थस्य भेदान्वयोऽपि