________________
१३ ग्रन्थः] व्याख्याषट्कयुतः। द्धावेवं युक्तं तत्रैव मानाभावस्तण्डुलं पचतीत्यादेः कर्मत्वादिप्रकारकबोधस्य संदिग्धत्वात्कर्मणि द्वितीयेत्याद्यनुशासनं च कर्मत्वादिसंसर्गेण धात्वर्थविशेष्यकतत्तन्नामार्थप्रकारकबोधे द्वितीयादिसमभिव्याहृततत्तन्नामजन्योपस्थितेर्नियामकत्वपरम् । द्वितीयादेः कर्मत्वादिशक्तौ कर्मत्वादिविशेष्यकावान्तरबोधे द्वितीयादिजन्यकर्मत्वाधुपस्थितेर्जनकत्वे चातिगौरवात् । युक्तं चैतत् । कथमन्यथा तण्डुलः पचति तण्डुलस्य पचतीत्यादितः कर्मत्वादौ [ निषिद्ध ? ] लक्षणाज्ञानादपि न शाब्दधीस्तथा च तण्डुलः पचतीत्यादौ द्वितीयाद्यभावादेवानन्वय इति तण्डुलं पचतीत्यादौ कर्मत्वादिसंसर्गेणान्वयो दुरि इति चेन्न । चैत्रः काशीं गच्छति न प्रयागं, घटो दण्डान्न तन्तोः, चैत्रस्येदं न मैत्रस्य, पृथिव्यां गन्धो न जले, इत्यादौ नार्यान्वयानुरोधाद्वितीयादेः कर्मत्वशक्तेस्तद्विशेष्यकबोधहेतुत्वस्य च सिद्धौ कर्मत्वादिसंसर्गकबोधे मानाभावाद्भेदेन निपातान्यनामार्थप्रकारकबोधे निपातप्रत्यया. न्यतरजन्योपस्थितेः समानविशेष्यत्वप्रत्यासत्त्या हेतुत्वात्तदसंभवाच । . न चैवमपि नामार्थप्रकारको धात्वर्थविशेष्यको बोधो न स्याचैत्रो जानातीत्यादौ धात्वर्थप्रकारकनामार्थविशेष्यकस्तु स्यादिति वाच्यम् । चैत्रः पचतीत्यादौ घटो नश्यतीत्यादौ च धात्वर्थस्य प्रत्ययार्थेऽन्वयाद्धात्वर्थप्रकारकबोधेऽपि निपातप्रत्ययान्यतरजन्योपस्थितेर्हेतुत्वकल्पनात् । चैत्रः पाक इत्यादौ कर्तृत्वादिसंसर्गेण पाकादेरनन्वयाय तथा हेतुत्वकल्पनावश्यकत्वाच्च । वस्तुतो भेदेन निपातप्रत्ययेतरपदार्थप्रकारकबोधे प्रत्ययनिपातान्यतरजन्योपस्थितिहेतुरिति एक एव कार्यकारणभावः । यद्वा निपातातिरिक्तार्थविशेष्यकतादृशबोधं प्रति प्रत्ययजन्योपस्थिति: प्रत्ययातिरिक्तार्थविशेष्यकतादृशबोधं प्रति निपातजन्योपस्थितिः कारणं वाच्यमिति न कोऽपि दोषः । न च ननादिनिपातार्थस्याप्यभावादेर्निपातेतराभावादिपदार्थत्वाद्धटोऽभाव इत्यादाविव घटो नेत्यादावण्यनन्वयोऽन्वय एव वा दृष्टान्तेऽपि स्यादिति वाच्यम् । निपातेतरेत्यादेनिपातपदाद्यप्रयोज्येत्यर्थादिति दिक् । ___ यत्तु तण्डुलं करोतीत्यादौ शक्तिभ्रमालक्षणया वा. द्वितीयार्थे पाके तण्डुलप्रकारकबोधे प्रत्ययजन्योपस्थितेः कारणत्वकल्पनात्तण्डुलस्तण्डुलं वा पचतीत्यत्र न तथा बोधः । एवं जानातीत्यत्र शक्तिभ्रमालक्षणया वा आख्यातार्थे आश्रयत्वादिविशिष्टे चैत्रत्वादिविशिष्ट एव वाश्रयत्वसंबन्धेन ज्ञानप्रकारकबोधे प्रत्ययजन्योपस्थिते: कारणत्वकल्पनाच्चैत्रो जानातीत्यत्र चैत्रादिपदप्रतिपाद्ये नाश्रयतया शानान्वय इति तन्न । यत्र तण्डुलं करोतीत्यादौ तण्डुलपदस्य तण्डुलावयवे द्वितीयायास्तण्डुले कृधातोः पाके लक्षणा, जानाति गच्छतीत्यादौ चाख्यातस्यैव