________________
२६
वादार्थसंग्रहः
[४ भागः
त्याद्यप्रयोगात् । चैत्रो जानातीत्यादौ शरीरविशेषाविच्छन्न आत्मैव चैत्रपदार्थः । क्वचिदवच्छेदकत्वेनाश्रयत्वमप्यर्थ इत्यन्ये ।
ननु नश्यतीत्यादौ नाश्रयत्वमर्थः प्रतियोगिनो नाशाद्यनाश्रयत्वात् ; नाप्यनुकूलव्यापारः, घटो नश्यतीत्यादौ कपालं नश्यतीत्यस्यैवापत्तेरत आह-नश्यतीत्यादि । निरूढेति । तत्त्वं चानादिप्रयोगवत्त्वं मुख्यार्थबाधाद्यनपेक्षत्वं वा क्वचिन्मुख्यप्रयोगापवादकत्वम् , हेत्ववयवे धूमादित्यादौ धूमादिपदस्थाने धूमज्ञानादिपदस्य, यत्नपरतया गच्छतीत्यादेश्च प्रयोगादिति बोध्यम् । न चानयत्वादावपि शक्तिरेवास्तु । लाघवाद्यनत्वजातिविशिष्टे शक्तौ लक्षणयैव तद्बोधसंभवात् ।
नन्वाश्रयत्वादिकं संबन्धतयैव भासतां किं लक्षणयेत्यत्राह-चैत्र इत्यादि । कर्मतासंसर्गेण तण्डुलस्य कर्तृतासंसर्गेण मैत्रस्य पाकेऽन्वयाबोधादित्यर्थः । न नश्यतीत्यादौ नअर्थान्वयानुरोधादपि प्रतियोगित्वादिकमर्थः । प्रतियोगित्वादेव त्यनियामकतया आश्रयत्वाभावबोधसंभवादिति बोध्यम् । प्रातिपदिकार्थेति । निपातान्येत्यादिः । तेन नातिरात्रे षोडशिनं गृह्णातीत्यादौ भेदान्वयेऽप्यदोषः । स्तोकं पचतीत्यादौ स्तोकपाकयोरभेदान्वयादाह-भेदेनेति । तादात्म्यभिन्नसंबन्धेनेत्यर्थः । प्रकारीभूतविभक्त्यर्थविशेषणतापन्नस्य प्रकृत्यर्थस्य यत्र विशिष्टवैशिष्टयबोधे तात्पर्य तत्र प्रकृत्यर्थविशेष्यीभूतविभक्त्यर्थान्वयिन्यपि प्रकृत्योंऽन्वेति । अन्यथा चैत्रो जानातीत्यादी ज्ञानाश्रयत्वप्रकारकबोवेऽपि ज्ञानस्य धर्मिण्यप्रकारत्वात्समानप्रकारकविरोधिज्ञानाभावेन ज्ञानाश्रयत्वस्य ज्ञानव्याप्यत्वाग्रहदशायां चैत्रो ज्ञानवान्नवेति संशयः स्यादत उक्तं साक्षादिति । स्वविशेष्यीभूतविभक्त्यर्थान्वयं विनेत्यर्थः ।
परे तु नामान्वितस्य विभक्त्यर्थस्यान्वयो धात्वर्थेऽपीत्यत: साक्षादिति । भेदसंबन्धावच्छिन्ननामार्थप्रकारतानिरूपितशाब्दबोधीयविशेष्यताया धात्वर्थवृत्तिताया अव्युत्पन्नत्वेनेति समुदायार्थ इत्याहुः । तदानस्याश्रयभानस्य । यद्यपि तण्डुलः पचति मैत्रः पच्यते इत्यत्राख्यातेन कर्मत्वकर्तृत्वाद्यनभिधानादनभिहिताधिकारीयद्वितीयातृतीययोरेव साधुत्वमित्यसाधुत्वज्ञानादेव न शाब्दधीस्तथाऽपि तदज्ञानदशायां तादृशशाब्दबोधः स्यादित्याशय इत्येके । कर्मत्वादिप्रकारकबोध एव तादृशासाधुत्वज्ञाने विरोधीति तत्संसर्गकबोधापादने न किंचिदनिष्टमित्यन्ये।
वस्तुतस्तु एतादृशव्युत्पत्तिमूलमेव तत्तदनुशासनम् । नामार्थधात्वर्थयोः साक्षादनन्वयात्स्वार्थप्रवेशेन तण्डुलं पचतीत्यादेरेकवाक्यतानिर्वाहकद्वितीयाधनुशासनादर्थसाधुत्वायैव तदुवयोगसिद्धेः । अथ द्वितीयादेः कर्मत्वादिशक्तिसि