________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः।
२५
बान् चैत्र इति बोधो वाच्यः । तथा तादृशसंबन्धस्य वृत्त्यनियामकत्वात् वृत्त्यनियामकसंबन्धस्य च प्रतियोगितानवच्छेदकतयाऽसंगतिरेवेति दुर्वारमाख्यातस्य कृतिवाचकत्वम् । चैत्रो जानातीत्यादौ चाश्रयतासंबन्धेन चैत्रे ज्ञानान्वये आश्रयतासंबन्धस्य वृत्तिनियामकत्वात् चैत्रो जानातीत्यादौ न किंचिद्बाधकमिति ॥ २ ॥
(जय०) नव्यमतमाह-अन्यदीयेत्यादि । नोंदनादीत्यादिनाऽदृष्टवदास्मसंयोगादिसंग्रहः । ननु नोदनस्य द्विष्ठत्वेऽपि नोद्य एव गमनोत्पादकत्वनियामको यो नोदनस्य संबन्धस्तेनैव तस्यान्वयः । आस्तां वागमनविशिष्टव्यापारान्वय इत्यत आह-जानातीति । चक्षुर्जानातीत्यादौ व्यापारे जनकत्वे वा लक्षणादर्शनान्नाश्रयत्वलक्षणानियमोऽतआह-इच्छनीति । यागश्राद्धादिलक्षणेच्छायां तदनुकूलकृतेरपि बोधादाह-यतत इति । यत्ने द्वेषे वा यत्नजन्यत्वमसंभवीति भावः । ननूक्तेषु कृतेरसंभवेऽपि विशेषज्ञानेष्टसाधनत्वादिज्ञानमनःसंयोगादिलक्षणव्यापाराणामेव ज्ञानादिक्रियाविशिष्टानामन्वयोऽस्त्वत आह-विद्यते इति । विदे: सत्तार्थकतया तदनुकूलाप्रसिद्धनात्र तत्संभव इति भावः । ननु सत्ताजातिन तदर्थत्तथा सति लङाद्यर्थातीतत्वाद्यनत्वयापत्तेः । किंतु कालसंबन्धस्तदनुकूलव्यापा. रस्तु प्रसिद्ध एवेत्यत आह-निद्रातीति । मेध्याख्यनाज्यवच्छेदेनात्ममनोयोगस्य निद्रानुयोगितया तन्नाडीमनोयोगस्य तत्त्वेन परंपरया तदाश्रयत्वस्यात्मन्यन्वयो बोध्यः । निद्रानुकलोऽसाधारणव्यापारस्तु नात्मनि । अदृष्टं तु साधारणमेवेति भावः । नच मनो निद्रातीति स्यात् । अनुयोगिताविशेषेण तदाश्रयत्वस्यैव तद्वयवहारप्रयोजकत्वात् । क्रिया धात्वर्थों ज्ञानादिरप्रतीतेरित्यस्यासंभवेनेत्यादिः । नातो गत्यादिमत्त्वमात्रेति मात्रांशेन पौनरुक्त्यम् । कथंचित्सर्वत्र व्यापारसंभवेऽप्यननुभवादेव तत्त्याग इति तदर्थात् । गत्यादीत्यादिना ज्ञानादिसंग्रहः। गतिमत्त्वमात्रप्रतीतिश्चाचेतनाभिप्रायेण । चेतने तदनुकूलकृतेरपि प्रत्ययात्। पथि गच्छति काशी गच्छती. त्यादेः काशीगमनप्रयोजकयत्नपरत्वेनैव निर्वाहात् । न चैवमन्यगमनानुकूलनोदनादिमति तन्नोदनप्रयोजकयत्नसत्त्वाद्गच्छतीति स्यात् । प्रयोगानुसारेण प्रयोजकताविशेषस्यैव गमनकृत्योः संबन्धत्वस्वीकारात् । नोदनाख्यव्यापारस्य त्वेकत्वात्। रयत्पुरुषो गच्छतीत्यपि तदर्थत्वे दुर्वारम् । वस्तुत आत्मा गच्छतीत्यप्रयोगाचेतनेऽपि गत्यादियोगे आश्रयत्वमेवार्थ: । चैत्रो गच्छति त्वं गच्छस्यहं गच्छामीत्यादौ शरीरविशेष एव चैत्रादिपदार्थः। युष्मदस्मदोरपि तत्र संबोध्योचारयितृत्वावच्छेदकशरीरपरत्वात् । काशी गच्छतीत्यादेश्च काशीनिष्ठसंयोगप्रयोजकगमना. श्रयत्वमर्थः । जानातीत्यादौ च समवायेनाश्रयत्वमेवार्थः, कालो जानाती