________________
२४
वादार्थसंग्रहः
[४ भागः
णतावच्छेदकगौरवाच तदुपेक्ष्य घटत्वादिवृत्तिविषयतासंबन्धेन ज्ञानत्वावच्छिन्नं प्रति घटत्वादिवृत्तिविषयतासंबन्धेन ज्ञानत्वेन हेतुत्वान्तरकल्पनस्य सम्यक्तया आपत्त्यसंभवात् ।
तथाहि-विरोधसामग्र्यभावेन ज्ञानीयो घट इति शाब्दबोधे जननीये ज्ञाधातुपदसमभिव्याहृताख्यातपदजन्योपस्थितिविशिष्टघटत्वप्रकारकज्ञानादेः सहका. रित्वं कल्पनीयम् । घटत्वप्रकारकज्ञाने च तथाविधोपस्थितिवैशिष्टयं च प्रकारतासंबन्धेन यत्स्वाधिकरणं तन्निरूपितविषयतासंबन्धावच्छिन्नवृत्तित्वरूपसामानाधिकरण्यसंबन्धेन । तथा च तादृशाख्यातपदजन्यघटाद्युपस्थितिकाले तथाविधसामानाधिकरण्यसंबन्धेन तादृशाख्यातपदजन्योपस्थितिविशिष्टं यद्धटत्वज्ञानं तत्स्वरूपसहकार्यभावेन न विरोधसामग्र्यभावरूपकारणबलादात्मनि ज्ञानीयो घट इति शाब्दबोधापत्तिः । न च तथापि पुरुषान्तरस्याख्यातपदज्ञानजन्यघटाधुपस्थितिकाले पुरुषान्तरात्मनि विरोधिसामग्र्यभावरूपकारणबलात् ज्ञानीयो घट इति शाब्दबोधापत्तिर्दुर्वा रेति वाच्यम् । एकात्मसमवेतस्यान्यात्मन्यापत्तिवारणार्थ तत्तदात्मसमवेतत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तत्तदात्मत्वेनापि हेतुत्वस्यावश्यकतया नञ्तत्पुरुषीयोपदर्शिताख्यातपदजन्योपस्थितिविशिष्टतत्पुरुषीयघटत्वप्रकारकज्ञानत्वावच्छिन्नविशिष्टतत्तदात्मविशिष्टविरोधिसामग्र्यभावस्य । ज्ञानीयो घट इति शाब्दबोधसामग्रीत्वाभ्युपगमेन कथमपि अनुपपत्त्यभावात् । घटत्वप्रकारकज्ञानत्वावच्छिन्नवैशिष्टयं च तत्तदात्मन्येककालीनत्वसंबन्धेन विरोधिसामग्र्यभावे तत्तदात्मवैशिष्टयं च तादात्म्यविशेषणतोभयघटितसामानाधिकरण्यसंबन्धेन बोध्यम् । तथा च ज्ञानत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावछिन्नं प्रति प्रकारतासंबन्धेन तथाविधाख्यातपदजन्योपस्थितेहेतुत्वस्य निर्दुष्टतया तादृशहेत्वभावाचैत्रो जानातीत्यादौ आश्रयतासंबन्धेन ज्ञानान्वयबोधासंभवेन तत्राख्यातस्याश्रयत्वे लक्षणावश्यकीति सारम् । __केचित्तु चैत्रो जानातीत्यादौ चैत्रे आश्रयतासंबन्धेन ज्ञानान्वयाभ्युपगमे प्रस्थितमाख्यातस्य कृतिशक्त्यापि । चैत्रः पचतीत्यादावपि स्वानुकूलकृतिमत्त्वसंबन्धेनैव चैत्रे पाकान्वयबोधस्य वक्तुमुचितत्वात् । यदि च धात्वर्थस्य नामार्थेन्वयोऽव्युत्पन्न इति तथाविधबोधस्यासंभवेनाख्यातस्य कृतिशक्तिरावश्यकीति विभाव्यते तदा जानातीत्यादावप्याश्रयत्वे लक्षणाकल्पनमावश्यकमित्याहुः । इदमत्र चिन्तनीयम् । चैत्रः पचतीत्यादौ स्वानुकूलकृतिमत्त्वसंबन्धेन चैत्रे पाकान्वये चैत्रो न पचतीत्यादौ स्वानुकूलकृतिमत्त्वसंबन्धावच्छिन्नप्रतियोगिताकपाकाभाव •