________________
१३ ग्रन्थः] व्याख्याषट्कयुतः ।
२३ ति न चैत्रो जानाति इत्यादावाश्रयतासंबन्धेन धात्वर्थज्ञानस्य नामार्थे अन्वयबोघसंभव इति भावः ।
अथ चिन्तामणिकारमतानुयायिनः-चैत्र: पचति तण्डुल इत्यादौ कर्मतासबन्धेन तण्डुलस्य पाके अन्वयबोधवारणाय नामार्थनिष्ठतथाविधप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावछिन्नं प्रति विभक्तिपदनिरूपितशक्ति(वृत्ति)ज्ञानजन्योपस्थितेः प्रकारतासंबन्धेन हेतुत्वकल्पनमस्तु; धात्वर्थनिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति तथाविधोपस्थितेः हेतुत्वकल्पनं निष्प्रामाणिकत्वात् नादरणीयम् । तथा च चैत्रो जानातीत्यादावाश्रयतासंबन्धेन धात्वर्थस्य नामार्थेऽन्वयबोधे बाधकाभावात् आश्रयत्वे आख्यातस्य निरूढलक्षणाकल्पनं किमिति तु न जानीमहे । नन्वाख्यातस्य आश्रयत्वे लक्षणानङ्गीकारे जानातीत्यादावाश्रयत्वप्रकारकान्वयबोधानुभवापलापप्रसङ्ग इति चेत्, प्रायः स्वमात्रानुभवबलात्तथा बाधकमुद्भावयसीत्याहुः ।
अत्र विवदन्ते बहवः-जानातीत्यादावाख्यातस्य घटादौ स्वारसिकलक्षणाज्ञानकाले ज्ञानीयो घटादिरिति शाब्दबोधोत्पत्त्यर्थ घटादिविशेष्यकज्ञानप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति ज्ञाधातुसमभिव्याहृताख्यातज्ञानजन्यघटाद्युपस्थितेर्हेतुत्वकल्पने घटत्वपटत्वादिभेदेनानन्तकार्यकारणभावकल्पनापत्त्या गौरवात्तदपेक्ष्य तदनिवेश्य ज्ञाननिष्ठप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धिं प्रति आख्यतपदनिरूनितवृत्तिज्ञानजन्योपस्थिते: प्रकारतासंबन्धेन हेतुत्वकल्पनैव ज्यायसी । तथा च तादृशक्लप्सकार्यकारणभावात् कथं चैत्रो जानातीत्यादावाश्रयतासंबन्धेन चैत्रे ज्ञाधात्वर्थस्यान्वय इति तत्राख्यातस्याश्रयत्वे लक्षणावश्यकीति । यत्तु घटत्वपटत्वादिकमनिवेश्य तथाविधकार्यकारणभावकल्पने ज्ञानीयो घट इति योग्यताज्ञानबलात्तथाविधाख्यातपदजन्यघटोपस्थितिदशायां ज्ञानीयो घट इति शाब्दबोधस्य समवायसंबन्धेन आत्मन्यापत्तिर्दुरा, यदि च विशेष्यतावच्छेदकनिष्ठप्रत्यासत्त्या शाब्दबुद्धियोग्यताज्ञानयोरपि कार्यकारणभावः कल्प्यते तथापि भिन्नविषयकानुमितिसामग्र्यभावरूपकारणताबलात्तदा तथाविघशाब्दबोधापत्तेरात्मनि ब्रह्मणोऽपि दु:समाधेयतेत्यवश्यं घटपटत्वादिकं निवेश्य तथाविधसमभिव्याहारज्ञानजन्योपस्थितिशाब्दबोधयोः कार्यकारणभावकल्पनमिति किं बाधकम् । चैत्रो जानातीत्यादौ चैत्रे आश्रयतासंबन्धेन ज्ञानस्यान्वय इति तन्न, उपदर्शितशाब्दबोधपदजन्योपस्थित्योर्विषयभेदेन कार्यकारणभावकल्पने तत्तद्विषयकत्वैः सह विनिगमनाविरहेण कार्यकारणभावानन्त्यात् कार