________________
२२ वादार्थसंग्रहः
[४ भागः स्तम् । उपदर्शितविनिगमनाविरहेण तत्तदनन्तधर्मावच्छिन्ने शक्तिकल्पनाप्रयुक्तगौरवस्य जागरूकत्वादित्यग्रे वक्ष्यामः ।
ननु चैत्रो जानातीत्यादावाश्रयत्वे निरूढलक्षणाकल्पनं निरर्थकमेव । तत्राश्रयता संबन्धेन चैत्रे ज्ञानरूपधात्वर्थस्यान्वयेनैवोपदर्शितान्वयबोधोपपत्तेः । तत्राश्रयत्वप्रकारकानुभवस्त्वसिद्ध एवेति चिन्तामणिकारमते दूपणमाह-चैत्रः पचतीत्यादि । अन्वयात्रोधादिति । चैत्रः पचति तण्डुल इत्यादौ कर्मतासंबन्धन पाके तण्डुलस्य, मैत्रः पच्यते तण्डुल इत्यत्र पाके कर्तृतासंबन्धेन मैत्रस्यान्वयाननुभवादित्यर्थः । धात्वर्थप्रातिपदिकार्थयोरित्यादि । धात्वर्थनामार्थयोरभेदातिरिक्तसाक्षात्संबन्धेनान्वयबोधस्याव्युत्पन्नतयेत्यर्थः । अत्र स्तोकं पचतीत्यादावभेदसंबन्धेन धात्वर्थे नामार्थस्तोकस्यान्वयाद्वयुत्पत्तिभङ्गोऽतोऽभेदाविरिक्तेति । ननु तत्र विशेषणविभक्तरेवाभेदोऽर्थस्तत्रैव स्तोकस्यान्वयोऽभ्युपेयते तथाच तत्राभेदातिरिक्तत्वविशेषणानुपादानेऽपि न दोषः। नामार्थप्रत्ययार्थयोरेव तत्रान्वयबोधस्योत्पन्नत्वादिति चेत् । सत्यम् । विशेषणविभक्तेः साधुत्वार्थकत्वेऽभेदार्थकत्वासंभवात् । तस्या अभेदार्थकत्वेऽपि लुप्तविभक्तिमननुसंदधा. नस्य स्तोक पाक इत्यादावभेदसंबंन्धेन पाके स्तोकान्वयबोधस्यानुभवसिद्धतया तत्रैवाभेदातिरिक्तत्वविशेषणव्यावृत्तिदानसंभवात् । तत्र लुप्तविभक्तेरनुसंधानं विना शाब्दबोधानङ्गीकारे गतं राजपुरुष इत्यादौ राजपदस्य राजसंबन्धिनि लक्षणया तत्रापि तथा वक्तुं शक्यत्वात् । तण्डुलं पचतीत्यादौ पाके तण्डुलकर्मत्वस्येव कर्मतासंबन्धेन तण्डुलस्यापि बोधोत्पत्या तंत्र व्युत्पत्तिभङ्गप्रसङ्गवारणाय साक्षादिति । नामार्थधाल्वर्थोभयान्वितविभक्त्यर्थातिरिक्तेत्यर्थः । ननु तथापि ' न कलझं भक्षयेत्' इत्यत्र विध्यर्थबलवदनिष्टाननुबन्धित्वविशिष्टेऽष्टसाधनत्वान्वितनञर्थाभावस्य धात्वर्थे कलञ्जभक्षणादावन्वयात्तत्रैव व्युत्पत्तिभङ्गपरिहारोऽशक्य इति चेन्निपातातिरिक्तत्वं नाम्नि विशेषणीयम् ; स्वीकुर्वतां वा नञ्पदस्याभाववति लक्षणा, तस्याभेदसंबन्धेन धात्वर्थे अन्वय इति । संबन्धमदियेत्यादि । चैत्रो जानातीत्यादौ धात्वर्थनामार्थयोः संसर्गमर्यादया वाश्रयत्वस्य भानासंभवादित्यर्थः । तथा चैतादृशव्युत्पत्त्यनुरोधेन नामार्थनिष्ठाभेदातिरिक्तसंबन्धावच्छिन्नप्रकारतानिरूपितविशेष्यतावच्छेदकतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिपदनिरूपितवृत्तिज्ञानजन्योपस्थितेः प्रकारतासंबन्धेन हेतुत्वं कल्पनीयम् । एवं धात्वर्थनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धित्वावच्छिन्नं प्रति विभक्तिपदनिरूपितवृत्तिज्ञानजन्योपस्थितेः प्रकारतासंबन्धेनेत्यपी.