________________
१३ ग्रन्थः ]
व्याख्यापटकयुतः।
.
२१
ननु जानातीत्यादिचतुष्टयस्य व्यापारे आख्यातस्य लक्षणयैवोपपत्तौ तत्राश्रयत्वे लक्षणाकल्पनमनर्थकमिति चेन्न । अत्यन्तव्यापारे (?) लक्षणाकल्पनापेक्षया आश्रये तत्कल्पनाया लघुत्वात् । विद्यते निद्रातीत्यादौ आख्यातस्य व्यापारबोधकत्वप्रसक्तिरेव न वर्तमानकालसंबन्धित्वस्य विदधात्वर्थस्य सिद्धामन:संयोगरूपस्य निद्रापदार्थस्य चानुकुलो यो व्यापारस्तत्पुरुषादावभावादिति भावः ।
ननु जानातीत्यादौ आख्यातस्य आश्रयत्वे लक्षणाकल्पने चैत्रोऽयं घट जानातीति प्रयोगकाले घटज्ञानाभाववति मैत्रे मैत्रोऽयं घटं जानातीति प्रयोगापत्तिः । एककालीनत्वसंबन्धावच्छिन्नतदाश्रयत्वस्य तदानीं मैत्रेऽपि सत्वात् तत्तत्संबन्धावच्छिन्नाश्रयत्वे लक्षणाकल्पने पुनरतीव गौरवात् । तदपेक्षया व्यापारे लक्षणाकल्पनमेव ज्यायोऽतिप्रसङ्गस्य तूपदर्शितरीत्या वारणीयत्वात् । यदि चाख्यातस्याश्रयत्वत्वेनाश्रयत्वसामान्य लक्षणा जानातीत्यादौ चाश्रयत्वत्वरूपेण समवायसंबन्धावच्छिन्नाश्रयत्वस्यैव बोधस्तथैव कार्यकारणभावकल्पनात्तथापि व्यापारे लक्षणापेक्षया गौरवापत्तिरित्यत आह-गत्यादिमत्त्वेति । आदिना ज्ञानादिमत्त्वपरिग्रहः । मात्रपदेन व्यापारव्यवच्छेदः । तथा चानुभवानुरोधेनागत्या तत्तत्संबधावच्छिन्नाश्रयत्वे लक्षणा तथाविधगुरुतरकार्यकारणभावो वा कल्प्यत इतिभावः। - केचित्तु ननूपदर्शितस्थलेषु व्यापारस्येवाश्रयत्वस्याप्यप्रतीतेरलं तत्र लक्षणयेत्यत आह-गत्यादिमत्त्वेतीत्याहुः । नन्वाख्यातस्य मुख्यार्थबाधस्थले सर्वत्राश्रयत्वे लक्षणाकल्पनं न संभवति । घटो नश्यतीत्यादौ प्रतीत्यसंभवात् । घटस्य नष्टत्वेन नाशाश्रयत्वाभावात् प्रतियोगितासंबन्धेन नाशत्वावच्छिन्नं प्रति प्रतियोगिनस्तादात्म्यसंबन्धेन हेतुत्वानुरोधेन नष्टस्यापि प्रतियोगितासंबन्धेन नाशाश्रयत्वाङ्गीकारे पुनर्लाघवात् प्रतियोगित्व एव लक्षणाकल्पनस्योचितत्वादित्यतस्तथैव आह-नश्यतीत्यादौ चेति । निरूढेति अनादिसिद्धेत्यर्थः।।
ननूपदर्शितबहुप्रयोगसत्त्वे तत्र शक्तिरेव किंमिति न कल्प्यत इति चेत् यत्नत्वरूपलघुशक्यतावच्छेदकसंभवेन तत्तत्संबन्धघटिताश्रयत्वत्वावच्छिन्ने शक्तिकस्सने गौरवज्ञानरूपप्रतिबन्धकस्य दत्तजलाञ्जलिः प्रसज्येत । न चाश्रयत्वस्यातिरिकत्वमभ्युपेत्य तदवच्छिन्नशक्तिकल्पने बाधकाभाव इति वाच्यम् । तर्हि व्यापारत्वमतिरिक्तमभ्युपेत्य तदवच्छिन्ने शक्तिकल्पनस्योचितत्वात् । न चेष्टापत्तिः । तथा सति विनिगम नामावादनन्ततद्धर्मावच्छिन्ने शक्तिकल्पनामपेक्ष्य लाघवात्लसयत्नत्वावछिन्न एवाख्यातस्य शक्तिकल्पने बाधकाभावात् । एतेन समवायित्वमतिरिक्तं स्वीकृत्य तदवच्छिन्ने आख्यातस्य शक्तिरन्यत्र लक्षणेत्यपा