________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
३३
तिसंधानेनाकृतव्यवहारो जायते इतरथा तु पट इव तत्रापि कृतव्यवहार एव जायते इति भावः । अतएव प्रतिसंधानपर्यन्तानुधावनम् । न च कृधातोः क्रियार्थकत्ववादिमतेऽपि यदाकुरे क्रियाजन्यत्वप्रतिसंधानं नास्ति अथ च क्रियाजन्यत्वा. भावस्य भ्रमात्मकप्रतिसंधानं तदेवाछुरे कृतव्यवहारो भविष्यतीति वाच्यम् । अ. नुभवविरोधात्। क्रियाजन्यत्वप्रतिसंधानस्योभयत्र तुल्यत्वेऽप्यकुरेऽकृतव्यवहारस्य सर्वसिद्धत्वादिति उक्तकारिकोक्ता कर्तृरूपव्यवस्थयेति द्वितीयां युक्तिमाहज्ञात्रादीति । ज्ञाधातोर्ज्ञानं तृच्प्रत्ययस्य चाश्रयोऽर्थ इति ज्ञातृशब्दस्य ज्ञानाश्रयबोधकरववदित्यर्थः आश्रयपरः आश्रयलाक्षणिकः । तृच् अन्ते यस्य तदाश्रयपरत. जन्तपदं तस्येत्यर्थः, तथा च कृधातोर्यनार्थकत्वाभावे कर्तपदाद्यनाश्रयबोधो न स्यादिति कृधातोर्यनोऽर्थ इष्यते इत्यर्थः । ननु कृधातोः कृत्यर्थकत्वे पत्तेत्यादिवत् तृचः कर्तृबोधकत्वेन कर्तृपदाय लानुकूलकृतिमानित्यर्थ एवावगन्तव्यो न तु कृत्याश्रयः आश्रयस्य तृजर्थत्वाभावात् । न च यत्नानुकूलकृत्याश्रयबोध एव वक्तव्यः बाधितत्वात् । अस्मदादो कर्तरि यतानुकूलकृतिमत्त्वस्याभावादित्याशङ्कामपाकत्तुं ज्ञानादिवदिति दृष्टान्तप्रदर्शनं कृतं; तथाच तृचो यथा ज्ञात्रादिस्थले आश्रयबोधकता तथा कर्तृपदस्थलेऽपि आश्रयबोधकत्वमिति कर्तृपदाद्यनाश्रयबोधोनानुपपन्न इति भावः।
क्रियायाः कृअर्थत्वे दोषान्तरं क्रियानुकूलव्यापारस्य तदर्थत्वे दोषं चाह-क्रियाया इत्यादि । तदनुकूले ति क्रियानुकूलेत्यर्थः, 'तदाश्रयः' पाकक्रियाद्याश्रयः, तण्डुलादिः कर्तृपदार्थः स्यादित्यन्वयः। क्रियानुकूलव्यापारस्य कर्तपदार्थत्वे दोषमाह कारकमानं वेति, मात्रपदं कृत्स्नार्थकं, तथाच क्रियानुकूलव्यापाराश्रयस्य कर्तपदार्थत्वे कारकसामान्यस्यैव क्रियानुकूलव्यापारवत्तया कर्तृपदार्थता स्थादित्यर्थो लभ्यते । यद्यपि क्रियायास्तदनुकूलव्यापारस्य वा कृमर्थत्ववादिनये क्रियाश्रयः कारकमात्रं वा कर्तपदार्थः स्यादिति न बाधकं तन्नये तयोरिष्टापत्तिसंभवात् तथापि क्रियात्वं तत्तद्वात्वर्थत्वं तदनुकूलव्यापारत्वञ्च तत्तद्वात्वर्थानुकूलव्यापारत्वं तदुभयमपि यनत्वजात्यपेक्षया गुरुतरमिति यत्नत्वमेव तदुभयापेक्षया लघुत्वेन कृधातुशक्यतावच्छेदकमुच्यते इत्यत्र तात्पर्यम् ।
. शङ्कते-अथेति। तथाच रथो गमनं करोतीत्यादौ रथो गमनानुकूलव्यापारवानित्याद्यर्थोऽवगम्यते इत्यनायत्या उक्तलाघवं त्यत्तवापि कृधातोापारार्थकत्वमुपेयमिति भावः । कृताकृतविभागेनेत्यादियुक्त्या कृतिवाचकत्वं निराकरोति बीजादिनेति। तथाच कृषः कृत्यर्थत्वे बीजादेः कृत्यर्थे बाधितत्वं स्यादिति भावः । नन्वेवं कर्तृपदे का गतिरित्यते आह-कर्तृपदे चेति, निरूढेति। नन्वेवं यत्नेपि प्रयोगसत्त्वे लाघवेन यत्ने कृधातोः शक्तिर्व्यापारे लक्षणेत्येव किं न स्यादिति चेत्, प्रयोगप्राचुर्यस्य शक्तिनियतत्वेन तद्भलेन कृषो व्यापारे शक्तौ सिद्धायामन्यायस्यानेकार्थत्वमिति(?)न्यायेन न यत्ने शक्तिः कल्प्यते । न च प्रयोगप्राचुर्य यत्नेऽपि वर्त्तते,