________________
१८ वादार्थसंग्रहः
[४ भागः ति । अभेदातिरिक्ततत्तद्विभक्त्यर्थसंबन्धेनेत्यर्थः, घटमानयेत्यादौ घटविशिष्टक. मत्वं कर्मतासंबन्धेन घटादिकञ्चानयने धात्वर्थे प्रकारतया भासते तथैव कर्मत्वादीनां प्रकारत्वसंसर्गत्वाख्यविषयताद्वयानुभवादित्यत उक्तं---साक्षादिति । विभक्त्यर्थान्वयं विनेत्यर्थः, अत्र निपाताव्ययातिरिक्तत्वेन प्रातिपदिकं विशेष. णीयं तेन चैत्रो बहुलं पचति न स्तोकमित्यादौ धात्वर्थ पाके प्रातिपदिकार्थस्य स्तोकभेदस्याश्रयतासंबन्धेनान्वयेऽपि न क्षतिः । तद्भानस्य गच्छतीत्यादावाश्र. यत्वादिभानस्य । नन्वीदृशव्युत्पत्तौ मानाभाव इत्याशङ्कायां धात्वर्थेत्यादिव्युत्पत्तो युक्तिमाह-चैत्रःपचतीत्यादि। तथाचेदृशव्युत्पत्त्यनङ्गीकारे चैत्रः पचति तण्डुल इत्यत्र चैत्रः कर्मत्वसंवन्धेन तण्डुलीयपाकानुकूलकृतिमान् इत्याकारकस्य मैत्रः पच्यते तण्डुल इत्यत्र कर्तृत्वसंबन्धेन मैत्रीयपाकजन्यफलवान् तण्डुल इत्याका रकस्य चान्वयबोधस्यापत्तिरित्यर्थः । यद्यप्यत्र तादृशान्वयवोधस्याप्रसिद्धतया आपत्तिर्न संभवति क्वचित् प्रसिद्धस्यैवान्यत्रापाद्यत्वात् तथापि विभक्तिजन्यकमत्वाद्यनुपस्थितिविशिष्टतण्डुलपदादिजन्योपस्थित्यधिकरणक्षणो यदि कर्मता. संबन्धेन तण्डुलप्रकारकपाकविशेष्यकान्वयबोधसामग्रीक्षण: स्यात् तदा तादृशान्वयबोधोत्पत्तिक्षणाव्यवहितपूर्वक्षण: स्यादित्यापत्तिर्वाध्या । तादृशान्वयबोधः तथा पचतीत्यादावव्ययीभूततथापदोपस्थापितस्य तण्डुलस्य कर्मतासंबन्धेन पाके यत्रान्वयस्तत्र प्रसिद्धः । • यतु कर्मत्वादीनां संबन्धत्वे मानाभाव इत्यापायाप्रसिद्धिरिति, तत्तुच्छं, तथा सति तण्डुलं पचतीत्यादौ कर्मत्वादेर्द्विविधविषयत्व सिद्धान्तविरोधापत्त्या कर्मत्वादीनां संबन्धत्वाभ्युपगमात् । न च तथापि चैत्रः पचतीत्यादेरसा. धुत्वेन साधुत्वज्ञानविरहादेव तत्र न तादृशान्वयबोध इति वाच्यं, साधुत्वभ्रमदशायामापत्तिसंभवात् । साधुत्वज्ञानस्य शाब्दबोधहेतुत्वे मानाभाव इति मतेनेदमिति कश्चित् । एतेन कर्मत्वादीनां संवन्धत्वाभात्रेऽपि घटो जानाती. त्यादौ विषयत्वसंबन्धेन घटे ज्ञानान्वयापत्तेश्चैत्रो ज्ञायत इत्यादौ समवायेन चैत्रे ज्ञानान्वयापत्तश्च वारणाय जानातीत्यादावाश्रयत्वे निरूढलक्षणा स्वीक्रियते इति गुणानन्दमतमपास्तम् ।आश्रयत्व-विषयत्वलक्षणानङ्गीकारेऽपि जानातीत्यादिसमभिव्याहारस्याश्रयतासंबन्धेन ज्ञानप्रकारकशाब्दत्वावच्छिन्नं प्रति शायत इत्यादिसमभिव्याहारस्य च विषयतासंबन्धेन च ज्ञानप्रकारकशाब्दत्वावच्छिन्नं प्रति हेतुताभ्युपगमेन तादृशापत्तिवारणात् ।
गुरवस्तु चैत्रः पचति तण्डुल इत्यापतिप्रसङ्गवारणाय साक्षात्तदर्थप्रकारेण पात्वर्थविशेष्यकान्वयबोधो माऽस्तु, गच्छतीति जानातीत्यादौ च साक्षादात्वर्थप्रकारेण नामार्थविशेष्यकान्वयबोधे बाधकाभाव एव, तस्मात् गच्छतीत्यादावाश्रयत्वप्रकारकशाब्दबोधस्यानुभवसिद्धत्वेनाश्रयत्वादौ निरूढलक्षणा स्वीक्रियत इत्यत्र दीधितिकृतस्तात्पर्यम् । मणिकृतश्चाश्रयत्वसंबन्धनैव चैत्रादौ ज्ञानादेरन्वयं वदन्ति