________________
१३ ग्रन्थः ]
व्याख्याषट्कयुतः ।
आख्यातस्य
दापि अनादितात्पर्यानादिप्रयोगसमानाधिकरणाप्याश्रयत्वांशे वृत्तिलक्षणैव न तु शक्तिरुक्तयुक्तेरिति निरूढलक्षणेत्यस्यार्थी बोध्यः, अन्यथा निरूढत्वप्रदर्शनस्यानुपयोगित्वापत्तेरिति दिक् । गच्छतीति, गच्छतीत्यादिप्रयोगनियतत्वमेव निरूढत्वमित्यपि कचित् । ननु गच्छतीत्यादौ क्रियानुकूलकृतिव्यापारयोरप्रतीत्या आख्यातस्य कृतिव्यापारबोधकत्वाभाव एवायाति न तु तत्राश्रयत्वे निरूढलक्षणेत्यत आह, गत्यादीति । आदिपदेन ज्ञानादिपरिग्रहः, मतुबर्थ आश्रयत्वं, मात्रपदच संपातायातं, गत्याश्रयत्वप्रतीतेरेव तत्राश्रयत्व - लक्षणासाधकत्वात् । यद्वा अननुगत्या आश्रयत्वप्रतीतिमात्रं यदि आश्रयत्वनिरूढलक्षणासाधकं तदा गङ्गायां घोष इत्यादौ तीरादिबोधकत्वेन गङ्गापदादेरपि तीरादौ निरूढलक्षणापत्तिरित्याशङ्कामपाकर्तुं मात्रपदमुक्त, तथाच गङ्गायां घोष इत्यादौ गङ्गापदात् कदाचित् तीरबोधः कदाचिच्च गृहादिबोध इत्येकत्राप्यनादिप्रयोगानादित्पर्ययोरभावेन न निरूडुलक्षणा । गच्छतीत्यादौ सर्वस्मिन् काले सर्वेण पुरुषेण गत्याश्रयत्वमेव प्रतीयते न त्वर्थान्तरमिति तत्राश्रयत्वे निरूद्रलक्षणेत्यर्थः ।
यत्तु अचेतनस्थलीये रथोगच्छतीत्यादौ गत्याश्रयत्वं सचेतनस्थलीये चैत्रो गच्छतीत्यादौ च गमनानुकूलकृतिरर्थः, सापि आत्मा गच्छतीत्यादौ समवायेन चैत्रो गच्छतीत्यादाववच्छेदकतासंबन्धेनेति तत्तुच्छम् । तथासत्यर्थतो भेदेन व्युत्पत्तिभेदकल्पनापत्तेस्तस्मादेतनाचेतनसाधारणमाश्रयत्वमेव गच्छतीत्यादावर्थः । आश्रयतात्वञ्च सर्वाश्रयत्वसाधारणमेकं तेन च रूपेण क्वचित् समवायसम्बन्धावनं कचिदवच्छेदकता सम्बन्धावच्छिन्नं कचित् परम्परासम्बन्धावच्छिन्नमाश्रयत्वं प्रतीयते, आयं चैत्रो गच्छतीत्यादौ, द्वितीयं चैत्रो जानातीत्यादौ, तृतीयं चैत्रो निद्वातीत्यादौ । ननु घटो नश्यतीत्यादौ नाशामुकूलकृतिव्यापारयोर्बाधादेव नान्वयः । न च संयोगादिनाशानुकूलव्यापारस्य क्रियादेर्घटादिवृत्तित्वेन नं तत्र बाधः, तथा सति विद्यमानेऽपि तादृशे घटे अयं घटो नश्यतीति प्रयोगप्रसङ्गात् । एतेन गच्छतीत्यादौ गत्याश्रयत्वादिवत् नश्यतीत्यादावपि नाशाश्रयत्वमर्थ इत्यपास्तम् । तथासति विद्यमाने संयोगादिशालिनि अयं नश्यतीत्यादिप्रयोगप्रसङ्गादित्यत आह- नश्यतीत्यादाविति । प्रतियोगित्व इति । न चैवमपि भाविनाशप्रतियोगितामादाय विद्यमानेऽपि घंटे नश्यतीति प्रयोगापत्तिः, आख्यातार्थवर्त्तमानत्वस्य धात्वर्थनाशान्वयित्वस्वीकारात् । एवमन्यद्बोध्यम् । न च गच्छतीत्यादौ गत्यादेराश्रयतासंबन्धेन नश्यतीत्यादौ प्रतियोगिता संबन्धेन नाशस्य च प्रथमान्तपदोपस्थाप्य एव साक्षात् प्रकारतया अन्वयोऽस्तु किमाश्र यत्व-प्रतियोगित्वयोर्निरूढलक्षणयेत्यत आह- धात्वर्थेति । तथाच धात्वर्थगत्यादेराश्रयत्वादिसंबन्धेन प्रातिपदिकार्थचैत्रादावन्वयस्य धात्वर्थेत्यादिव्युत्पत्तिविरोधेनासंभवात् तत्र तत्राश्रयत्वादौ निरूढलक्षणावश्यकीत्यर्थः, स्तोकं पचतीत्यादौ क्रियाविशेषणस्य स्तोकस्याभेदसंबन्धेन धात्वर्थे पाके साक्षादन्वयादाह-भेदेने