________________
वादार्थसंग्रहः
[ ४ भाग:
मनोयोगादिरेव प्रतीयतामित्यत आह-विद्यत इति । धात्वर्थस्य वर्त्तमानकालसंबन्धादेरनुकूलव्यापारस्य गगनादौ बाधात् गगनं त्रियत इत्यस्यानुपपत्तिरित्यर्थः । निद्रातीति । मेध्यानामनाडीविशेषेण मनसः संयोगो निद्रा, सच संयोग आत्मनि स्वाश्रयमनः प्रतियोगिकविलक्षण संयोगलक्षणपरम्परासंबन्धेन वर्त्तते इत्ययं पुरुषो निद्रातीति प्रयोग उपपद्यते । विलक्षणसंयोगश्च तत्तदात्मीयादृष्टा कृष्टमनसि तत्तदात्मीयताव्यवहारनियामकतया सिद्धः केवलमात्म-मनसोरेव । एवं मनः प्रतियोगिकसंयोगेन मनो न मनसीति मेध्या निद्राति मनो निद्राति इत्यादयो न प्रयोगाः । न च निरुक्तपरम्परासंबन्धेन मेध्यान्तःकरणसंयोगो यथा आत्मनि वर्त्तते तथा तदनुकूलव्यापारो मेध्याक्रिया मनःक्रिया वा स्वजन्यमेध्यान्तःकरणसंयोगाश्रयमनःप्रतियोगिक विलक्षणसंयोगेनात्मनि वर्त्तते इत्यत्र -क्रियानुकूलव्यापारबोधः संभवत्येवेति वाच्यम् । तादृशपरम्परासंबन्धेन तदनु-कूलव्यापारस्यात्मनि विशिष्टबुद्धयभावेन तादृशपरम्परायाः संबन्धत्वे मानाभावात् । मेध्यान्तःकरणसंयोगस्य च उक्तपरम्परासंबन्धेनात्मनि विशिष्टबुद्धया उक्तपरम्परायाः संबन्धत्वमावश्यकमन्यथा स्वनिद्राया विशिष्टबुद्धयनुत्पादापत्तेः । अत एव यत्र प्रयत्नयोग्यनायवच्छेदेन प्रयत्ने जाते तेन प्रयलेन तन्नाड़ीकर्म जायते तेन च कर्मणा तन्नाड्या मनसि मेध्यायां वा नोदनाभिघातौ जायेते ततो मनसो मेध्याया वा कर्मोत्पत्तिः तदनन्तरं उत्तरदेशे मनसि मेध्यायां वा मेध्याया मनसा वा संयोगस्तत्र मेध्या - मनः संयोगानुकूलायास्तत्तन्नाढ्यवच्छिन्नकृतेरात्मनि संभवेन कथं तादृशकृतेरप्रतीत्यभिधानमित्यपास्तम् । ईदृशानुकूलत्वसंबन्धेन धालस्याख्यातार्थे अन्वयविरहात् । अन्यथा तण्डुलक्रयणानुकूलकृतावपि तुल्यन्यायेन - पाकादेरनुकूलत्वसंबन्धेनान्वयापत्या अपचत्यपि तादृशक्रयकर्त्तरि पचतीतिप्र- त्ययप्रसङ्गात् । अत्र च क्रियानुकूलकृति - व्यापारयोरप्रतीतेराश्रयत्वे निरूढलक्षणेत्यर्थः । गच्छतीत्यादो कर्नाख्याते आश्रयत्वे निरूढलक्षणा वाच्येत्यर्थः । क्रियानुकूलकृति - व्यापारयोः प्रतीतौ शक्तयैव बोधः स्यादिति निरूढलक्षणायां मनाभाव - एव स्यादित्यप्रतीत्यन्तमुक्तं, लक्षणाया निरूढत्वञ्चानादितात्पर्याना दिप्रयोगयोः सामानाधिकरण्यम् । न चैवमनादितात्पर्यानादिप्रयोगयोः सत्त्वे घटादौ घटपदादिवत् कर्त्राख्यातस्याप्याश्रयत्वे शक्तिरेव कल्प्यतामिति वाच्यम् । यत्र लघ्वर्थे गुर्वर्थे चानादितात्पर्यानादिप्रयोगौ तुल्यौ तत्र लाघवेन लघ्वर्थे शक्तिर्गुर्वर्थे निरूढलक्षणेति सर्वसिद्धम्, अन्यथा नीलादिपदस्य नीलरूपादाविव नीलरूपवदादावपि शक्तिप्रसङ्गात् अनादितात्पर्यानादिप्रयोगयोरुभयत्र तुल्यत्वात् तथाच प्रकृतेऽप्याख्यातस्य कृतौ आश्रयत्वे च तयोस्तुल्यत्वे कृतावेव शक्तिकल्पनं युक्तं न त्वाश्रयत्वे, आश्रयतात्वस्य जातीतरत्वेन कृतित्वजात्यपेक्षया गुरुत्वात् । सामा- विशेषत्ववम् जातित्ववदितरत्वेत्यादावपि लाघव - गौरवपदार्थत्वादिति भावः । इत्थञ्च निरूढत्वेन शक्तिकल्पनप्रसक्तिवारणाय निरूढेत्युक्तं, तथाच निरू
न्यत्व - 1
१६