________________
१३ ग्रन्थः ] व्याख्याषट्कयुतः। योश्च संसर्गमर्यादया आश्रयत्व-प्रतियोगित्वयोर्भानसंभवात् किंतत्र लक्षणा. भ्युपगमेन, आख्यातस्य तु वर्तमानत्वं संख्या च यथायथमर्थोऽस्तु इत्यत आहचैत्र इति । अन्वयावोधादिति। धात्वर्थे कर्मतासंबन्धेन तण्डुलस्य कर्ततानिरूपकत्वसंबन्धन चैत्रस्यान्वयावोधात् । एवं धात्वर्थपाकस्य कर्तृतासंबन्धेन चैत्रे कर्मतासंबन्धेन च तण्डुले अन्वयाबोधाचेत्यर्थः । इदमुपलक्षणं ज्ञानं चैत्र इत्यादौ आश्रयतासंबन्धेन चैत्रादौ ज्ञानादेरन्वयाबोधाच्चेत्यपि द्रष्टव्यम् । एतेन पचति तण्डुल इत्यादौ कर्मतासंबन्धेन तण्डुलादेर्धात्वर्थपाकविशेष्यकत्वेनान्वयबोधवारणाय धात्वर्थस्य नामार्थविशेष्यतया अंन्वयबोधस्याव्युत्पन्नत्वात् , प्रकृते च नामार्थकर्त्तविशेषणतया गमादिधात्वर्थस्यान्वये न किमपि बाधकमित्यपि प्रत्युक्तम् । स्तोकं पचतीत्यादौ धात्वर्थ-नामार्थयोरभेदसंसर्गेणान्वयबोधदर्शनादुक्तं भेदेनेति, अभेदातिरिक्तसंबन्धेनेत्यर्थः, अभेदस्तादात्म्यं, 'साक्षादन्वयस्य' साक्षावेनान्वयस्य, ' अव्युत्पन्नतया' शब्दाजन्यतया, नामार्थान्वितस्य विभक्त्यर्थस्य धात्वर्थे धात्वर्थान्वितस्य विभक्त्यर्थस्य च नामार्थे बोधस्य शब्दजन्यत्वादुक्तं साक्षादिति । तद्भानेति । आश्रयत्व-प्रतियोगित्वयोर्भानेत्यर्थः । अत्र प्रा. तिपदिकमव्ययातिरिक्तत्वेन विशेष्यं, तेन न कलशं भक्षयेदित्यत्र न्यायनये नत्रर्थस्य विशेषणताविशेषसंबन्धेन धात्वर्थे अन्वयः । गुरुनये अनुयोगितासंबन्धेन धात्वर्थस्य नमर्थे अन्वयो नानुपपन्नः । अतएव ज्ञानवदिच्छा इत्यादावपि वत्यर्थस्य धात्वर्थे अनुयोगितासंबन्धेन प्रतियोगितया च साक्षादन्वयो नानुपपत्रः । न चाभेदातिरिक्तसंबन्धेन पाकज्ञानादिप्रकारक-चैत्रादिविशेष्यकः शाब्दबोधः पचति चैत्रः ज्ञानं चैत्र इति वाक्यात् योग्यतातात्पर्यादिज्ञानसत्त्वेऽपि कुतो न जायते सति कारणस्तोमे कार्यानुत्पादस्यासंभवादिति वाच्यम् । यादृशानुपू. तिस्ताहशान्वयबोधोऽनुभवसिद्धस्तादानुपूर्यास्तत्र हेतुतया यावद्विशेषकारणविरहादेव ततस्तदनुत्पादात् ।
केचित्तु धात्वर्थनिष्ठविषयतानिरूपिततादात्म्यातिरिक्तसंबन्धावच्छिन्ननिपातातिरिक्तपदार्थनिष्ठविषयतासंबन्धेन शाब्दबोधोत्पत्तिं प्रति धातूत्तरप्रत्ययजन्योपस्थितिविशेष्यतासंबन्धेन कारणम् । यद्वा तादृशविषयतानिरूपितोक्तसंबन्धा. वच्छिन्ननामार्थनिष्ठविषयतासंबन्धेन शाब्दबोधोत्पत्तिं प्रति निपातजन्योपस्थितिविशेष्यतासंबन्धन कारणमतो न तस्मात् तादृशबोधः इत्याहुः। तदसत्, धात्वर्थनामार्थयोरनुगतानतिप्रसक्तयोर्वचत्वादिति ध्येयम् ॥ २ ॥
(राम) एतन्मतं, दुषयितुं स्वमतं दर्शयितुञ्चाह-अन्यदीयेत्यादि । अन्यदीयेत्यादिकमारभ्य नव्याइत्यन्त एको ग्रन्थः । रथीयगमनानुकूलनोदनादिमति निश्चले हस्तादावित्यर्थः । ननु गमनोपहितव्यापार एव गच्छती. त्यस्यार्थो वाच्य इति नोक्तदोष इत्यत आह-ज्ञानातीति । 'गच्छतीत्यादित्रिकसुदाहरणबाहुल्यप्रदर्शनाय । ननु जानातीत्यादौ ज्ञानानुकूलो व्यापार आत्मनि