________________
१३ ग्रन्थः]
व्याख्याषट्कयुतः ।
तैराश्रयत्वप्रकारकानुभवानङ्गीकारात् । एवं नश्यतीत्यादौ प्रतियोगित्वलक्षणा. नङ्गीकारे घटो न नश्यतीत्यादौ नत्रान्वयानुपपत्तिः। तथाहि यद्याश्रयतासंबन्धेन नाशस्याभावः प्रत्येतव्यस्तदा स्वटत्तिसंयोगादिनाशस्य घटे सत्त्वेन बाधापत्तिः । अथ प्रतियोगितासंबन्धन नाशस्याभावः प्रतीयतामिति चेत्, न, निरूपकत्वादिवत् प्रतियोगित्वादेः प्रतियोगितावच्छेदकसंबन्धत्व विरहात् । प्रतियोगित्वे लक्षणास्वीकारे च नाशप्रतियोगित्वस्य स्वरूपसंबन्धेनाभाव एव प्रतीयते तत्र च न कोऽपि दोषः । एवं घटं जानातीत्यादौ कर्मत्वस्य केवलसंबन्धत्वे घटं न जानातीत्यादौ नमर्थान्वयानुपपत्तिविषयत्वस्य प्रतियोगितावच्छेदकसंबन्धत्वाभावादेवमन्यद्बोध्यमित्याहुः। __नव्यास्तु चैत्रो ज्ञानमित्यादौ समवायसंबन्धेन चैत्रविशेष्यकज्ञानप्रकारकान्वयबोधवारणाय चैत्रविशेष्यक-ज्ञानप्रकारकशाब्दबुद्धि प्रतिज्ञाधातूत्तरविभक्तिजन्याश्रयत्वोपस्थितित्वेन हेतुता वाच्या, तथाच चैत्रोजानातीत्यादौ आश्रयत्वलक्षणाविरहे तादृशोपस्थितिविरहादेव नान्वयः इत्याश्रयत्वलक्षणाङ्गीक्रियते, एवं पाकस्तण्डुल इत्यादौ पाकविशेष्यक-तण्डुलप्रकारकशाब्दबोधवारणाय पाकविशेष्यकतण्डुलप्रकारकशाब्दबुद्धिं प्रति तण्डुलपदोत्तरविभक्तिजन्य-कर्मत्वायपस्थितित्वेन हेतुता वाच्येति तदभावादेव चैत्रः पचति तण्डुल इत्यादौ कर्मत्वादिसंवन्धेन पाकादौ तण्डुलप्रकारकान्वयबोधो न जायते, यदा च तत्रापि तण्डुलपदोत्तरप्रथमाविभक्तौ कर्मत्वादिलक्षणा क्रियते तदा जायत एव पाकादौ तण्डुलप्रकारको बोधः । नन्ववं तण्डुलं पचतीत्यादौ विभक्तिजन्य-कर्मत्वोपस्थितिसहकारेण पाकादौ कर्मतासंबन्धेन तण्डुलप्रकारकान्वयबोधोऽस्तु न तु कर्मताविशेष्यकतण्डुलप्रकारको बोधः। तण्डुलं पचतीत्यादिसमभिव्याहारस्य पाकविशेष्यकतण्डुलकर्मकत्वप्रकारकशाब्दत्वापेक्षया लाघवेन पाकविशेष्यककर्मतासंसर्गकतण्डुलप्रकारकशाब्दत्वादीनां कार्यतावच्छेदकत्वकल्पनाया एव न्याय्यत्वादिति चेत् सत्यमेतत् , यदि नानुभवविरोधो भवेदिति । वयं तु केवलं तण्डुलमित्यादौ कर्मतांशे तण्डुलप्रकारकबोधस्यानुभवसिद्धतया तण्डुलमिति वाक्यस्य कर्मताविशेष्यकतण्डुलप्रकारकशाब्दत्वं कार्यतावच्छेदकं वाच्यं, तथाच तण्डुलं पचतीत्यादावपि सामग्रीबलादेव तण्डुलकर्मकत्वेन पाकविशेष्यकान्वयबोधोऽवश्यं वाच्यः । न च कर्मत्वं तण्डुलीयं पाकस्तण्डुलीय इत्यन्वयबोधः स्यान्महावाक्यार्थबोधे कर्मवविशेष्यकत्वप्रवेशे गौरवादिति वाच्यम् । तथा सति तण्डुलं पचतीत्यादौ एकवाक्यताभङ्गप्रसङ्गात् विधेयभेदस्य वाक्यभेदकत्वात् । किञ्च चैत्रो मांसं पचति न तण्डुलमित्यादौ पाके नंअर्थतण्डुलकर्मवाभावस्य प्रतीत्यर्थ कर्मतांशे तण्डुलस्य प्रकारता वाच्या कर्मत्वादेवयनियामकतया कर्मतासंबन्धावच्छिन्नप्रतियोगिताक-तण्डुलाभावबोधस्यासंभवात् आश्रयत्वादिसंबन्धावच्छिन्नप्रतियोगिताकतण्डलाभावबाधाभ्युपगमे च तण्डुलपाकस्थलेऽपि तथा प्रयागप्रसङ्गादिति वदामः ।