________________
१३ ग्रन्थः] आख्यातशक्तिवादः।
१८१ अथैवं यत्नस्य वर्तमानत्वं न प्रतीयेत तस्यापदार्थत्वात् । अन्यत्र धात्वर्थक्रियायां स्वार्थव्यापारे वा लडादेवर्तमानत्वाद्यनुभावकत्वस्य व्युत्पन्नत्वाच । न च पाकजनकवर्तमानव्यापारेण पाकजनकवर्तमानयत्नानुमान, यत्नविगमेऽपि व्यापारानुवृत्तेः । धर्मिविशेषनिष्ठता च यत्नस्य न प्रतीयेत तवयधिकरणव्यापारस्यापि पाकजनकत्वात्, चैतन्या विनाभूत
चैत्रत्वादिविशेषितेन तेन यत्नानुमानमिति चेन्न, वेति । पटांकुरयोर्यथासङ्खयेनान्ययः । अत्र यत्नः प्रवृत्तिरूपः । तेनास्मन्मते ईश्वरकृतिजन्यस्यांकुरे प्रतिसन्धानेऽपि न क्षतिः । ननु कृतः कृतिशक्तौ धातो. रपि कृतिवाचकत्वे कर्तेत्यत्र कृतिकर्तेति बोधः स्यादत आह-ज्ञात्रेति । बोधकत्वादिति । निरूढलक्षणया सविषयार्थकधातुसमभिव्याहृतकृतः समवायित्वमात्रबोधकत्वादित्यर्थः । साधकमुक्त्वा बाधकमाह-क्रियाया इति । क्रिया स्पन्दः । तदनुकूलेति, कार्यानुकूलेत्यर्थः । प्रथमे बाधकमाह-तदाश्रयः क्रियाश्रयः । द्वितीये तदाह-कारकेति । अधिकरणादेरिति । तदनुकूलव्यापारसंयोगादिसत्त्वादिति भावः । गच्छतीत्यस्य विवरणं गमनं करोतीति। बीजादिना की अचेतने स्थाल्यादौ । यत्नाविनेति । क्रिया सयत्ना पाकत्वात् पाकाद्वा इत्यनुमानादित्यर्थः । अन्यथा प्रकारान्तरलभ्यस्यापि शक्यत्वे विवरणविषयस्यैव शक्यत्वे वा । धर्मिणः कादिः ॥ ३ ॥
(न्यायवा०) एवं यत्नस्यापदार्थत्वे तस्य यत्नस्य अत्र पचतीव्यादितोऽन्यत्र जानातीत्यादौ स्वार्थव्यापारे...ति पचतीत्यादौ। अत्र स्वार्थच्यापारादन्यत्र । तथाच धात्वर्थक्रियायाः स्वार्थव्यापारान्यतरस्मिन्नेव वर्तमानबोधकत्वं, न स्वनुमानोपस्थितेऽपीत्यर्थ इति कश्चित् । अत्र चाभयत्वबोधकाख्यातजन्यवर्तमानत्वबोधे धात्वर्थोपस्थितिक्पारे बोध......तजन्यतद्वोधे आख्यातजन्यव्यापारोपस्थितिः हेतुः समानविशेष्यत्वं प्रत्यासत्तिः । नश्यतीत्यादौ वर्तमानोत्पत्तिरेवार्थः । तादृशल्यापारे एतादृशयत्नानुमाने कालिकव्याप्तौ व्यभिचारमाहयत्नविगमेऽपि । ननु तादृशचेष्टायवच्छिन्नव्यापारेण तदनुमेयस्थूलकालमादाय चाव्याप्तिरतो धर्मिविशेषेति ।
ननु यलसामानाधिकरण एव व्यापारः पाकजनकः, तथा च तेनैव धर्मिविशेषसिदिः स्यादतो व्यधिकरणेति । व्यधिकरणं काष्ठसंयोगादेः । तेन