________________
१३ ग्रन्थः ] आख्यातशक्तिवादः ।
कृत्रश्च यत्नाभिधायकत्वं क्रियाजन्यत्वप्रतिसंघानाविशेषेऽपि यत्नजन्यत्वाजन्यत्वप्रतिसंधानात् पटांकुरयोः कृताकृतव्यवहारात् ज्ञात्रादिवदाश्रयपरतृजन्तकर्तृपदस्य यत्नाश्रयबोधकत्वाच । क्रियायास्तदनुकूलव्यापारस्य वा कृअर्थत्वे तदाश्रयः कारकमात्रं वा कर्तृपदार्थः स्यात् । अथ रथोगच्छति गमनं करोति बीजादिना अंकुरादिः कृत इति विनापि यत्नं कृतः प्रयोगान्न तस्य यत्नवाचकत्वं, कर्तृपदे च श्लोकादौ योजनया तादृशानुपूर्वीज्ञानं कार्यते । अतएव च पदार्थपक्षकवैशे. षिकानुमानव्याख्यानप्रस्तावे आसत्तिश्चार्थोपस्थापकपदाव्यवधानरूपति मिश्राः। न च निराकाङ्क्षानासन्नस्थलेऽपि शाब्दसमानाकारो मानसबोधो दुर्वार एवेति किमपराद्धं शाब्दबोधेनेति वाच्यम्, संशयाकारतादृशमानसबोधसामग्यास्तदानी प्रायश: सौलभ्येन शाब्दसमानाकारनिश्चयनियमाभावात् । शाब्दबोध. स्वीकारे च शाब्दसामग्र्या बलवत्वेन नियमतो निश्चयस्वीकारापत्तेः । अतएव भूतलं घटवन्न वेति संशयो भूतलं घटवदिति शब्दस्थल निवर्तते । न निवतते च भूतलं घट इति शब्दस्थले । इदमेव च पदेनानेकार्थोपस्थापनस्थले तात्पर्यग्रहस्य हेतुतायां बीजम् । अतएव तत्रापि भूतलं तुरगवन्न वा लवणवन्न वेति संशये सति भूतलं सैन्धववदित्यत्र यस्मिन्नर्थे तात्पर्य गृह्यते तत्संशयो निवर्तते, न पुनरन्य इति स्वयमूह्यमिति दिक् ।
एकदेशिनस्तु द्वितीयादीनां कर्मत्वादिशक्तौ मानाभावः । कर्मत्वत्वादिप्रकारकबोधश्च संदिग्धः । तण्डुलः पचतीत्यादावतिप्रसङ्गवारणं तु कर्मत्वसंसर्गबोधादौ द्वितीयासमभिव्याहारादेः कारणत्वस्वीकारेणापि भवतीत्यूचुः ॥ २ ॥
(न्यायवा०) कृषो यत्नवाचकत्वे एव तेन आख्यातविवरणात् आख्यातस्य यत्नवाचकत्वं सेत्स्यति अतः कृषः यत्नार्थकत्वं साधयति-कृञश्चेति । क्रिया संयोगादिः, संयोगादिजन्यत्वं पटे अंकुरे चास्ति, तथापि पटकृतो अंकुर इति व्यवहारात् यत्न एव कृत्वाच्य इत्यर्थः । ईश्वरकृतिजन्यत्वज्ञानदशायां अंकुरेऽपि कृत इति व्यवहारात्प्रतिसन्धानानुधावनम् । ननु कृधातोः कृतिशक्तत्वे तृचश्च कर्तृशक्तो कर्तेत्यत्र वृत्तिकर्तेति बोधः स्यादतो शात्रादीति । सविषयार्थकधातृत्तरतृचः समवायित्वबोधकत्वात् । क्रियायाः कृत्वे कर्त