SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ १८ वादार्थसंग्रहः । [ ४ भ्रामः 1 I यतासम्बन्धेन धात्वर्थप्रकारकबोघं प्रति तिङतदन्यतरजन्योपस्थितेः कारणत्वं कल्पनीयमिति हृदयमूह्यम् । अत्र सर्वत्र कार्यतावच्छेदककोटौ नामार्थत्वादिकं नामजन्यप्रतीतिवैशिष्टयादिगर्भ कारणतावच्छेदककोटावपि जन्यत्वमुपधानमेवेति नातिप्रसङ्गः । एवं विशेष्यतासम्बन्धेनाभेदसम्बन्धक- तन्नामार्थकबोघं प्रति तन्नामोत्तरसार्थकविभक्त्यसमानकालीना तन्नामोत्तरविभक्तिविजातीयविभक्त्यसमभिव्याहृतपदजन्योपस्थितिः कारणम् । तेन स्तोकं पचतीत्यत्र धातोर्धान्येन धीत्यत्र धनपदस्य नीलो घट इत्यादौ घटपदस्य संग्रहः । अकाली नेत्यन्तोपस्थितिविशेषणान्नोदनं पचतीत्यादावोदनस्य पाकोपरि तादृशप्रकारतेति । अत्राभेदो द्विविधः, तादात्म्यतदवच्छिन्नाव्याप्तिश्च । तेनोद्देश्यविधेयस्थलसंग्रहः । वस्तुतस्तु यथा कथंचिद्रूपेण तस्य कल्पित कार्यकारणभावद्वयस्यापि ज्ञानं जानातीत्यादी व्यभिचारः । तत्र धात्वर्थस्यापि सुबर्थोपर्यपि प्रातिपदिकार्थस्य च तिङर्थोपयैपि प्रकारत्वादिति घटप्रकारककर्मत्वादिविशेष्यकनिरूपितत्वादिसंसर्ग कशाब्दबोधविशेषं प्रति घटमेतादृशानुपूर्वीज्ञानं कारणम् । शाब्दबोधे विशेषश्च अन्यवहितोत्तरतासम्बन्धेन तत्तदानुपूर्वीज्ञानवत्वमेव । आनुपूर्व्यपि अव्यवहितोत्तरत्वसम्बन्धेन पूर्वपूर्ववत्तद्वर्णवत्त्वमुत्तरोत्तरवर्णे । इयमेव च पदवृत्तिः शक्ततावछेद्रिका प्रातिपदिक सुबादिवृत्तिः । धातुतिङादिवृत्तिश्वाकांक्षा | मौनिश्लोकाद वर्णप्रत्यक्षाभावेऽपि तादृशानुपूर्वीकवर्णानुमानम् । एवं तादात्म्येन घटप्रकारकतादृशबोधे द्रव्यं घट इत्यानुपूर्वीज्ञानम् । एवं पाकप्रकारककृतिविशेष्यकं बोधं प्रति पचतीति । घटः कर्मत्वमित्यादिकमभेदसंसर्गकतत्पदार्थो । तण्डुलः पच्यत इत्येतादृश विशिष्ट आख्यातार्थप्रकारकतन्दुलविशेष्यक बोध इत्याद्यनुभवानुसारेण स्वयमूह्यम्। एवं च तत्र तस्यास्तस्यानुपूर्व्या: प्रयोजकं नान्यत्र । कपालस्येव पटे इत्येव च तत्तदर्थे तस्य तस्य वाक्यस्य निराकांक्षत्वम् । अत्र नियतः संसर्ग आकांक्षाज्ञानतोऽनियतश्च तात्पर्यज्ञानभास्य इति । यदि घटपदामपदयोः प्रत्येकं गृहीतशक्तिकस्य तात्पर्यज्ञानादिसत्त्वेऽपि तादृशसमभिव्याहारविशेषस्य तादृशशाब्दबोधं प्रति कारणताग्रहरूपव्याकरणादिकारितव्युत्पत्तिशून्यस्य तादृशशाब्दबोधाभावोऽनुभवसिद्धस्तदा तादृश कार्यकारणभावग्रहरूपव्युत्पत्तिरपि कारणम् । अतएव विपरीतव्युत्पन्नस्य घटः कर्मत्वमित्यादितोऽपि बाधः । व्यभिचारोद्धारस्तु घटं कलशमित्यनयोरिव कर्त... इति न किंचिदनुपपन्नम् | आसत्तिश्च यद्यत्पदार्थानां परस्परमन्वयबोघस्तेषां विशेष्यविशेषणवाचकपदानां निरुक्तानुपूर्वी तज्ज्ञानं चान्वयव्यतिरेकाभ्यां कारणम् । अतएव च "
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy