________________
वादार्थसंग्रहः [४ भागः न च पृथिव्यामेव गन्ध इत्यादावन्यसमवतेत्वत्वावच्छिन्नाभावो नाप्रसिद्ध इति वाच्यम् । समवेतत्वत्वापेक्षयाऽन्यसमवेतत्वत्वस्य गुरुत्वेन तत्रापि तदवच्छिन्नाभावाप्रसिद्धितादवस्थ्यात् । यदि च गुरुधर्मोऽपि प्रतियोगितावच्छेदकस्तदात्राप्रसिद्धेरभावात्सर्वसाधारणं दोषमाह-बाधितत्वं चेति । अन्यसमवेतत्वत्वावच्छिन्नाभावः सामान्यादौ प्रसिद्धोऽपि गन्धादौ बाधित: पृथिव्या अपि जलाधपेक्षयान्यत्वादिति भावः । नन बाधानवतारस्थले तत्प्रसिद्धिरस्त्वत आह-पार्थे एवेत्यादि । पार्थ इति सप्तम्यन्तम् । पार्थ एव धनुर्धरत्वमित्यादी पार्थान्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदस्याप्रत्ययप्रसङ्गादित्यर्थः। तस्य पार्थान्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदस्य । तत: अन्यसमवेतत्वत्वावच्छिन्नव्यवच्छेदात्। असमवेतमात्रनिष्ठात् । तथा च शक्यतावच्छेदकानाक्रान्तत्वात् तद्वोधो न स्यादिति भावः । पार्थ एव धनुर्धर इत्यभिप्रायेणान्यतादात्म्यत्वावच्छिन्नाभावस्याप्रसिद्धत्वेन तस्य ततोऽन्यत्वादित्यस्यासंगतिर्बोध्या । एवकारत्वमेव शक्ततावच्छेदकं, न तु तत्तत्स्थलीयैवकारत्वम् । येन प्रकृतस्थलीयैवकारशक्या प्रसिद्धया तत इत्यस्यानुपपत्तिः स्यात् । इत्थं च तत एवकारशक्यतावच्छेदकावच्छिन्नादन्यसमवेतत्वत्वावच्छिन्नाभावादित्यर्थ इत्यपि ब्रमः । ननु भवन्मतेऽप्यन्ययोगस्य व्यवच्छेदे प्रतियोगितामात्रेणान्ययोगत्वावच्छिन्नप्रतियोगितया वाऽन्वये विवक्षितार्थालाभ इत्यत आह-नीलो घटो नास्तीति । यथा नअर्थाभावे विशेषणतावच्छेदकावच्छिन्नप्रतियोगिताकत्वस्य व्युत्पत्तिबलाद्भानं तथा यथाश्रत एवकारार्थव्यवच्छेदेऽपीति भावः । इदं एकपदार्थयोः परस्परान्वयित्वम् । तथा च कृतिवर्तमानत्वयोरेकपदार्थयोः परस्परान्वयवदत्रापि तथाऽन्वयो नाव्युत्पन्न इति भावः । नन्वेवमाख्यातमात्रस्य व्यापारवाचित्वे संयुजिप्रभृतेरपि सकर्मकत्वे चैत्रो ग्रामं संयुज्यते इत्यादिप्रयोगः स्यादत आह-धात्वर्थेति । धात्वर्थ: संयोगस्तदनुकूलव्यापारः क्रियारूप: । नन्वेवमपि संयुज्यत इत्यत्र चैत्रस्य संयोगानुकूलकर्मवत्त्वे बाधविरहाद्वयापारवानित्यसंभवात्सकर्मकत्वं स्यादत आहसंयोगवत्त्वमात्रेति । तथा चात्र नैयायिकानामिवास्माकमप्याख्यातस्याश्रयत्वं कृतश्चाश्रय एवार्थ इति प्रत्ययोपनीतव्यापाराभावान्न सकर्मकत्वमिति भावः। नन्वेवमपि संयोग इत्यादौ घनादिना व्यापाराभिधानाद्धातोः सकर्मकत्वं स्यादत आह-संयोग इति । मंडनेनानुक्तस्याभिधानान्मंडनमतानुयायिन इत्युक्तम् ।
पाकेति । पाकस्य धात्वर्थत्वाभावाद्यत्नत्वेन यत्नस्य चाख्यातार्थत्वाभावात् पाकानुकूलयत्नत्वेन बोधो न स्यादित्यर्थः । ननु तादृशबोधो लक्षणया शक्ति
१ अन्यसमवेतेत्यपि पाठान्तरम् ।