SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १३ प्रन्थः] आख्यातशक्तिवादः । तत्र तत्र तत्तत्फलानुकूलतत्तद्वयापारविशेष एव धात्वर्थः । सर्वत्र धात्वाश्रयत्वमेव कर्तत्वं संख्यावर्त. मानत्वादिकं कचिदाश्रयत्वादिकमपि वा आख्यातार्थे इति गुरुमतमपि तत्र तत्र तादृशयत्नाननुभवप्रसङ्गादनुपादेयम् ॥ १७॥ इति महोपाध्याय-श्रीरघुनाथशिरोमणिभट्टाचार्यकृत आख्यातवादः समाप्तः। भ्रमेण वा भविष्यतीत्यत आह-फलेति । नन्वसाधारणानुकूलत्वस्य संसर्गत्वान्नायमपीत्यत आह-विभागेति । विभागाद्यनुकूलस्पन्दस्य त्यजिघात्वर्थत्वान्नातिप्रसंग इति भावः । ननु विभागस्य परंपरया कृतौ यादृशमनुकूलत्वं तादृश एव संसर्ग इति नायमपि दोष इति चेत्, तथापि निराकृतं प्रागेव व्यापारत्वस्याख्यातशक्यतावच्छेदकत्वं यत्नत्वस्य लाघवेन तत्त्वौचित्यात् । घनादेः शक्यन्तरकल्पनायां गौरवाजानाति संयुज्यते जानीयात्संयुज्यादित्यादौ धात्वर्थे प्रत्ययार्यान्वयस्य क्लृप्तत्वात्सर्वत्र तथात्वौचित्याच्च । किं च क्वाचित्कस्पंदादिरूपक्रियाया अपि धातुना प्रतिपादनात्स्पंदत्वादेः संयोगत्वाद्यपेक्षया गुरुत्वाभावाच्च शक्यतावच्छेदकत्वं दुर्वारम् । यत्र च फलापेक्षया व्यापारो गुरुस्तत्रास्तु फलमेवार्थो व्यापारे लक्षणा, पृथक्शक्तेरेवोपगमादिति दिक् ॥१६॥ (मथु० ) गुरुमतमाह-तत्र तत्रेत्यादिना । तत्तत्फलेति । तानि तानि फलानि संयोगविभाग-विक्लित्ति-स्वत्व विशेषादिरूपाणि, तदनुकूलो व्यापारविशेषः गमि-त्यजि-पचीनां कर्तुः स्पन्दत्वददात्यादेर्शानरूप इत्यादिव्यापारविशेष इत्यत्र विशेषपदोपादानात् नोदनादृष्टतजनककृत्यादिव्युदासः । पचेः साक्षाद्विक्लित्तिजनकस्य तण्डुलावयव क्रियादेयुदासः । तस्य पच्यर्थत्वे तण्डुलं पचतीत्यादौ तण्डुलपदस्य तण्डुलावयवपरतया परसमवेतस्य द्वितीयार्थस्य धात्वर्थसाक्षाद्विक्लित्तिजनकस्पन्दस्य पच्यर्थत्वेऽपि पचतीत्यादौ चैत्रादेः स्वजनककृत्यादिमत्वसंवन्धेन धात्वर्थाश्रयत्वादिति भावः। आश्रयत्वादिकमिति । आदिपदात्प्रतियोगित्वपरिग्रहः । भावकर्माख्यातवारणाय क्वचिदित्युक्तम् । कर्माख्यातस्य फलमेवार्थः । तादृशेति । वर्तमानत्वादिविशिष्टेत्यर्थः । ताहशानुभवः स्वारसिकत्वेन विशेषणीयः । तेन लक्षणया तत्र यत्नानुभव इति
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy