SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १३ ग्रन्थः] आख्यातशक्तिवादः। १६५ जनकप्रत्ययत्वं कर्तृप्रत्ययत्वं स्वार्थव्यापारविशेषणकफलविशेष्यकबोधजनकप्रत्ययत्वं च कर्मप्रत्ययत्वमिति भावः । इदमुपलक्षणम् । कर्तृकर्मणोर्मुख्यविशेष्यतानिबन्धनोऽपि व्यवहारभेदो बोध्यः । संख्याकालादिभेदविशिष्ट-धातूत्तरप्रत्ययजन्योपस्थितेर्धात्वर्थविशेषणकबोधे तन्त्रत्वात् , धात्वर्थत्य फलस्य भेदेन प्रातिपदिकार्थेऽन्वयस्याव्युत्पन्नत्वाचाहवस्तुतस्त्विति । इत्थं च चैत्रेण पच्यते तंडुल इत्यत्र चैत्रस्तृतीयाथें व्यापारे, व्यापारः फले, फलमधिकरणत्वे, अधिकरणत्वं च तण्डुले प्रकार इति बोध्यम् । फलाश्रय इति । तथा च चैत्रेण ग्रामो गत इत्यत्र तृतीयार्थों व्यापारः, स च धात्वर्थे फले, फलं चाश्रये, आश्रयश्चाभेदेन ग्रामादावन्वेतीति भावः । व्यापाराश्रय इति । चैत्रो ग्रामं गत इत्यादाविति भावः । सामानाधिकरण्यानुरोधात् अभेदान्वयानुरोधात् । वन्वेवं जानातीत्यादौ फलव्यापारयोरप्रतीतेः का गतिरत आह-जानात्यादाविति । तत्र धातोर्शानादिकं, प्रत्ययस्याश्रयविषयत्वादिकं वर्तमानत्वादिकं चार्थः । वर्तमानत्वादेश्च धात्वर्थ एवान्वय इति भावः । पूर्व समानपदोपात्तत्वप्रत्यासत्त्या व्यापारे वर्तमानत्वाद्यन्वय इत्युक्तम् । __ व्यापारस्य कर्माख्यातस्थले तृतीयार्थत्वे च कुत्र तदन्वय इत्यत आहसुबर्थ इति । तृतीया कर्तृविहितषष्ठयोः साधारणत्वाय सुबर्थत्वेनाभिहितम् । वर्तमानत्वादीत्यादिपदादतीतत्व-भविष्यत्वयोर्लिङादाविष्टसाधनत्वादेश्च परिप्रहः । फलार्थकघातूत्तरप्रत्ययाधीनवर्तमानत्वाद्यन्वयबोधे प्रत्ययजन्यव्यापारोपस्थितिरेव तन्त्रमिति भावः । ननु पचमान इत्यादौ कर्तृकृदथैकदेशे व्यापारे कथं वर्तमानत्वाद्यन्वय इत्यत आह-पचमान इति । वर्तमानत्वातीतत्वभेदेनोदाहरणद्वयम् । स्तां वेति । तथा च व्यापारस्य नैकदेशत्वमिति भावः । नन्वेकपदाथयोः परस्परान्वयस्याव्युत्पन्नत्वात्कयं व्यापारान्विताश्रयरूपविशिष्टलाभ इत्यत्राह-एवकारस्यैवेति । तथा च तत्रैवात्रापि तथान्वयो नाव्युत्पन्न इति भावः । ननु तत्रान्ययोगव्यवच्छेदो विशिष्ट एवार्थोऽस्वित्यत आह-अन्ययोगप्रतियोगिकेति । अतिप्रसक्तत्वादिति । तथा च सत्त्वादिनिष्ठस्य पृथिव्यन्यसमवेतत्वस्य द्रव्यत्वेऽप्यभावसत्त्वात्पृथिव्यामेव द्रव्यत्वमित्यादिप्रयोगप्रसङ्ग इति भावः । शक्या प्रसिद्धिरिति । पार्थ एव धनुर्धर इत्यादावन्यतादात्म्यत्वाद्यवच्छिन्नस्य केवलान्वयित्वात्तदवच्छिन्नव्यवच्छेदोऽप्रसिद्ध इत्यर्थः ।
SR No.034267
Book TitleVadarth Sangraha Part 04 Aakhyat Shaktivad Cha Tika
Original Sutra AuthorN/A
AuthorMahadev Gangadhar Bakre
PublisherGujarati Printing Press
Publication Year1931
Total Pages238
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy