________________
१४४
वादार्थसंग्रहः
[४ भागः अन्यत्र कर्मणि विषयता तत्र क्रिया तत्राधेयत्वं तत्र च कर्तेति । ज्ञातो ज्ञाता नष्ट इत्यादौ कर्तृकर्मकृतां विषयाश्रय-प्रतियोगिबोधकत्वम् । यतत इत्यादौ, यत्यादिनोपस्थिते यत्ने विषयित्वेन नान्वयः, किन्तूद्देश्यत्वेन पदस्वाभाव्यात् । अत एवाभुनानेऽपि भोजनाय यतते इत्यादयः प्रयोगाः ॥ १५॥ . चैत्रे, तत्र आख्यातार्थत्वे, किया धात्वर्थः, तत्र धात्वर्थे, तत्र विषयितायां, अन्यत्रेति चैत्रेण ज्ञायते घट इत्यादावित्यर्थः । एवं च घटं जानाति चैत्र इत्यादौ घटवद्विषयितावत् ज्ञानवदाश्रयत्वांश्चैत्र इत्यादिको बोधः, मैत्रेण ज्ञायते घट इत्यादौ मैत्रवदाधेयत्वज्ञानविषयतावान् घट इत्यादिको नोध इति भावः । ननु मुख्यभाक्तताधारणसकर्मकधातुयोग एव यदि द्वितीयादयः, तदा घटं यतत इत्यादिरपि प्रयोगः स्यात्, यत्यादिधातोरपि सविषयक्रियावाचित्वेन भाक्तसकर्मकत्वादित्यत आह-यतत इति । क्रियादिना उपस्थिते यले साध्यत्वाख्यविषयत्वेनवान्वपः, न तूदेश्यत्वेन, भोजनाय करोतीत्यप्रयो.. गात् । अत उक्तं यत्यादिनेत्यादि । आदिपदात् यस प्रयत्ने इति यस् धातोः परिग्रहः । अत एव पाकाय प्रयासो न तु पाकस्येति भावः । यत्यादिना लक्षगया उपस्थापिते ज्ञानादौ विषयतासामान्येनान्वयादुक्तं यत्न इति, विषयित्वेन विषयित्वावच्छिन्नत्वप्रकारेण, आदिना साध्यतापरिग्रहः । उद्देश्यत्वेन उद्देश्यत्वावच्छिन्नत्वप्रकारेण, तथाच द्वितीयाया उद्देश्यत्वावच्छिनाबोधकतया तद्वो. धकचतुर्थ्या घटाय यतत इत्यादिरेव प्रयोग इति भावः।
केचित्तु कृयादिनोपस्थापिते यत्न इव यत्यादिनोपस्थापिते यत्नेऽपि साध्यत्वाख्यविषयित्वप्रकारेणैवान्धयबोधः । न चैवं घटं यतत इत्येव प्रयोगापत्तिरिति वाच्यम् । स्पृहधातुयोगे चतुर्था इव यत्यादिधातुयोगेऽपि चतुर्थ्या द्वितीयार्थवोधकत्वादित्याहुः । तन्मतं निराकरोति-अतएवेति। अभुक्षानेऽपि भोजनसाध्यकप्रवृत्तिशून्येऽपि, भोजनोद्देश्यकप्रवृत्तिमतीति शेषः। भोजनं करोतीति च न तत्र प्रयोग इति भावः ॥ १५ ॥
(राम) ननु चैत्रेण घटो ज्ञायते इत्यादौ यदि कर्मप्रत्ययस्य विषयत्वं तृतीयायाचाधेयत्वमर्थस्तदा चैत्रो घटं जानातीत्यादौ वाक्ये चैत्रेण घटो ज्ञायते